________________
>
( १७ ) प्राधान्यमिति क्रमानुपातित्वाद् विवक्षाद्वयशरीराऽपि प्रथमद्वितीय वाक्यप्रयोजकविवक्षाभ्यां भिनैव प्रयोजक विवक्षाक्रमादिवैकप्रयोगाकलितस्यापि धर्मद्वयप्रतिपादकवचनद्वयसमनुगतवाक्यस्य क्रमः तत्प्रतिपाद्यत्वाद् धर्मद्वयस्यापि क्रमिकत्वम्, तद्वाक्यनिवत्यैश्च स्यादस्ति स्यान्नास्ति न वा घट इत्येवंरूपः क्रमिकास्तित्वनास्तित्वधर्मद्वय परिनिष्ठित स्वरूपास्तित्वविशिष्टनास्तित्वात्मकधर्मान्तरनिष्ठप्रकारता निरूपिततादृशधर्मान्तरनिष्ठप्रतियोगिताका भावत्वावच्छिन्न प्रकारत नरूपितवत्वावच्छिन्नविशेष्यताकदोलायमानबोधस्वरूपः संशयः प्रथमद्वितीयवाक्य निवर्त्यसंशयाभ्यां भिन्न एव तस्य स्यादस्त्येव स्यान्नास्त्येव घट इति वाक्यजन्यो यः स्वद्रव्याद्यवच्छिन्नास्तित्वविशिष्टपरद्रव्याद्यवच्छिन्नास्तित्वनिष्ठप्रतियोगिताका भावत्वावच्छिन्नप्रकारत्वानिरूपितस्वद्रव्याद्यवच्छिन्नास्तित्वविशिष्टपरद्रव्याद्यवच्छिन्न नास्तित्वनिष्ठप्रकारतानिरूपित घटत्वावच्छिन्नविशेष्यताक निर्णयात्मको बोधस्तन्निवर्त्यत्वेन तादृशबोधजनकोक्तवाक्यनिवर्त्यत्वं युज्यत इति तादशसंशय निवर्तकबोधजनकत्वात् स्यादस्त्येव स्यान्नास्त्येव घट इति वाक्यस्यावश्यप्रयोक्तव्यत्वमिति । अथवा अयं स्थाणुर्वा पुरुषो वेति स्थाणुस्वस्थाणुत्वाभावपुरुषत्व पुरुषत्वाभावात्मक चतुष्कोटिक संशयोऽप्युपेयत इति द्विकोटिक एव संशय इति न नियमः, एवं च प्रकृतेऽपि स्वद्रव्याद्यपेक्षयाऽस्तित्वं स्वद्रव्याद्यपेक्षया नास्तित्वं परद्रव्याद्यपेक्षया नास्तित्वं परद्रव्याद्यपेक्षयाऽस्तित्वात्मकपर
૨