SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ मुनिशिवानन्दविजयविरचिताउच्चार्यमाणमपि घटनाम जलाहरणादिकार्य विदधातुमलम् , न वा इन्द्रनामसङ्केतितो नामेन्द्रो रथ्यापुरुषादिः स्वर्गसाम्राज्यमनुभवति, घटोऽस्ति, घटमानय, घटेन जलमाहरतीत्यादौ सर्वत्र व्यवहारे भावघटस्यैवापामरं प्रतीत्युपपत्तेः, न च नाम्ना ऽप्यर्थप्रतीतिरूपं कार्य भवत्येवेति वाच्यं, भावानवबोधात् , योऽयं मृतपिण्डदण्डचक्रकुलालादिकारणचक्रनिष्पनो भावस्त. स्यैव नामस्थापनाद्रव्यभावतश्चतुर्धा विजनमनुयोगद्वारत याssश्रीयते, तत्रैवमुच्यते भावघट एव घटकार्यतया लोकप्रसिद्धाया जलाहरणाद्यर्थक्रियाया निष्पादने पटुरिति स एव मुख्यो घटः, नाम घटादयस्तदात्मतामासादयत एव तादृशार्थक्रियाकारिणो नान्यथेति, अर्थप्रतीतिस्तु यन्नामकार्यतयोपदश्यते तत्रापीयमेव गतिः, यतो घटरूपार्थप्रतीतिकार्यकारित्वाद् घकारोत्तराका. रोत्तरटकारोत्तरात्वरूपानुपूर्व्यवच्छिन्न, यश्च पकारोत्तराकारोत्तस्टकारोत्तरात्वरूपानुपूाधवच्छिन्नं पटादिरूपार्थप्रतीतिकारि तदपि घटनामेति नाम्ना सङ्केतितं तनामनाम, अर्थो वा यः कश्चित्तथा सङ्केतितो नामनामेति प्रत्यतव्यः, उक्तनाम्नश्च चित्रादौ स्थापितोऽक्षराकारः स्थापनानाम, तन्नाम्नश्च पूर्व वर्तमाना भाषावगणा या तन्नामरूपेण परिणमिष्यति सा द्रव्य. नामेति, एवं विभज्यमाने घटनामस्वरूपे भावनामैव घटार्थप्रतीतिरूपकार्यनिष्पादने क्षममिति तदेव सत् , नामनामादयस्तु तद्र पताश्रयणेनैवोक्तप्रतीतिकारिणः, एवमाकृतिद्रव्य योरपि भावनीयम् , भावनिक्षेपमूलकं च सौगतदर्शनम् ,
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy