SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ मुनिशिवानन्दविजर्यावरचिता (नय) रूपवााथज्ञानस्य, स्यात्सन्घट इति वाक्यम्प्रति स्यात्सन्घट इति प्रमाणरूपवाक्यार्थज्ञानस्य च कारणत्वमिति वाक्यविशेषरूपव्याख्याम्प्रत्यपि प्रमाणनययोः कारणत्वमेतञ्च व्या. ख्यास्वरूपाप्रविष्टतयैव तनिष्पादकत्वमिति न व्याख्याङ्गताव्यपदेशमर्हति, विशेषणभावप्रतिपादनमुखेन प्रवर्त्तमानवाक्यसन्दर्भरूपव्याख्यानस्य यद्विशेष्यस्वरूपाविर्भावकं यच्च विशे. षणस्वरूपोपदर्शकं तद्वयाख्यानस्वरूपघटकतया (व्याख्यानविषयिताव्यापकवियिताकतया) अवयविरूपसन्निविष्टावयव. वदङ्गीभाव विभर्ति, तत्र विशेषणस्वरूपाविर्भावकतया सत्स ङ्ख्यादीनामङ्गतया व्याख्यानद्वारता, नामादीनां तु न विशेषणस्वरूपाविर्भावकतया, किन्तु कर्मधारयसमासैकनिविष्टविशेष्यभावापन्नवस्त्वभिधायकपदमात्राव्यवहितपूर्ववत्तितया विशेष्यस्वरूपविशेषविवेचनलक्षणविशेष्यस्वरूपाविर्भावकतया, एवञ्च कर्मधारयवृत्तिसमभिव्याहाराश्रयविशेष्यभावापन्न वस्त्वभिधायकपदमात्राव्यवहितपूर्ववर्तिवस्तुत्वव्या पकधर्मावच्छिन्नाशक्तविशेष्यवस्तुस्वरूपविशेषाविभर्भावनप्रत्यलं वचनत्वं निक्षेपत्वमिति निक्षेपस्य सामान्यलक्षणम् । इदश्च लक्षणं नामस्थापनाद्रव्यभावेषु समनुगतम , तथाहिनामघट इत्यादिस्वरूपे निक्षेपे कर्मधारयवृत्तिः समभिव्याहारो नामघटत्वादिः तदाश्रयो यद्विशेष्यभावापन्नवस्त्वभिधायक
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy