SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ निक्षेपमीमांसा प्रमाणविषयोऽनन्तधर्मात्मकं वस्त्विति वस्तुनो यावन्तो धर्माः प्रत्येकं तत्तद्धर्मविशिष्टं वस्तु तत्तद्धर्मो वा तद्वस्त्वभिधायकतच्छब्दवाच्य इत्येवं निक्षेपस्वरूपव्यवस्थायां साक्षात्परम्परयावा सर्वस्यापि पदार्थस्य सर्वेऽपि धर्माः एकस्यापि वस्तुनो भवन्त्येवेति निक्षेपानामानन्त्यमेव,तदाश्रयणेनैव "सर्वे शब्दाःसर्वा. र्थवाचका' इति,किन्त्वेवं कल्पनायां प्रसिद्धाप्रसिद्धपदविभागो दुर्घट आपद्यतेत्यतस्सर्वनयसनाहिणि भगवत्प्रवचने जघन्यतोऽपि निक्षेपचतुष्टयमभिमतम् , प्रमाणेन यथा जघन्यतो निक्षेपचतुष्टयं शक्तिसङ्कोचेन, तथा नयेन ततोऽपि शक्तिसङ्को. चनो नामादिनिक्षेपत्रयं द्रव्यास्तिकनयस्य, भावनिक्षेप एव पर्यायास्तिकनयस्य, केषाश्चिन्मते सहव्यवहारनयौ स्थापनावजास्त्रीनिक्षेपानभ्युपगच्छतः इत्यादि, तथा च यस्मिन्नये यद्रुपवस्तु तन्नयतस्तत्रतद्वस्तुवाचकपदशक्तिग्राहको निक्षेपः प्रवतंत इति, इत्थं च प्रमाणनयाभ्यामपेक्षणीयत्वानिक्षेपस्तनिरूपणात्याक् निरूपणाई इति, निक्षेपस्य तत्त्वस्वरूपत्वेऽपि शक्तिग्राहकशब्दात्मकरचनाविशेषस्वरूपत्वेन शब्दात्मकत्वं शब्दस्य च पौद्गलिकतया धर्माधर्माकाशपुद्गलात्मकचतुर्भेदलक्षणाजीवपदार्थान्तभूतपुद्गलपदार्थान्तर्भूतत्वेनाजीवतत्वकथनमेव तत्कथनमिति न पृथक्त्वतया तत्त्वपरिगणनप्रवणसूत्रेऽस्य सन्निवेशः। एवमेव तच्चाधिगमोपायभूतयोः प्रमाणनययोस्तत्त्वरूपत्वेऽप्युपयोगस्वरूपत्वेनोपयोगलक्षणो जीव इत्येवं लक्ष
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy