SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ( ११० ) धर्मदेशस्य धर्मीयत्वेन तत्पदेशस्यापि धर्मीयत्वात् एवं धर्मादिदेशानामपि प्रदेशा अधर्मादिप्रदेशा एवावगन्तव्याः, "दासेन मे खरः क्रीतो दासो मम खरोऽपि मे इति" न्यायात्, व्यवहारस्तु यस्यैकस्यानेकसम्बन्धित्वं तस्यैवानेकसम्बन्धितया व्यपदेशो भवति यथा बहुमूल्यस्यैकस्य हिरण्यस्याविभक्तस्य भ्रातृपञ्चकस्वत्ववतः पञ्चानां भ्रातॄणां हिरण्यमिति व्यपदेशः, प्रदेशस्तु यो धर्मस्य तदन्य एवाधर्मस्य तथाकाशादेरित्येकस्य प्रदेशस्य धर्माधर्मादिपञ्चसम्बन्धित्वाभावात्पञ्चानां प्रदेशः इति व्यपदेशो न सम्भवति किन्तु पञ्चविधः प्रदेश इति मन्यते । ऋजुसूत्रस्तु मन्यते-पञ्चविधः प्रदेश इति वक्तुं न शक्यते, यतः पञ्चविधत्वस्य प्रत्येकं प्रदेशेऽन्वये धर्मास्तिकाय प्रदेशः पञ्चविधः अधर्मास्तिकाय प्रदेशः पञ्चविधः आकाशास्तिकाय प्रदेशः पञ्चविधः जीवास्तिकाय प्रदेशः पञ्चविधः स्कन्धप्रदेशः पञ्चविधः इत्येवं प्रदेशस्य पञ्चविंशतिविधत्वं प्रसज्येतेत्यतो भाज्यः प्रदेशः स्याद्धर्मास्तिकायस्य प्रदेशः स्यादधर्मास्तिकायस्य प्रदेश: स्यादाकाशास्तिकायस्य प्रदेशः स्याज्जीवास्तिकायस्य प्रदेशः स्यात्स्कन्धस्य प्रदेश इति । शब्दनयस्तु व्रते प्रदेश प्रदेशिमद्भावस्य काल्पनिकत्वेन भजनीयत्वे कल्पना विकल्परूपेच्छैवेति धर्मास्तिकायप्रदेशत्वेन विकल्पितस्तथा विकल्पदशायां •
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy