SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ (१०८) शौ तत्सम्मतौ पर्यायमात्रग्राही पर्यायार्थिकः, अयं धुत्पादविनाशलक्षणपर्यायमात्रमभ्युपगच्छति, सजातीयक्षणपरम्परात एव प्रत्यभिज्ञानप्रमाणस्योपपत्तेः सजातीयक्षणपरम्परातिरिक्त द्रव्यं नायमुररीकरोति, द्रव्यार्थिके द्रव्यमात्रग्राहित्वं नाम प्रधान्येन द्रव्यमात्राभ्युपगन्तृत्वं,पर्यायार्थिके पर्यायमात्र ग्राहित्वं नाम प्राधान्येन पर्यायमात्राभ्युपगन्तृत्वं, तेन द्रव्यार्थिकस्य गौणतया पर्यायाभ्युपगन्तृत्वेऽपि पर्यायार्थिकस्य गौणतया द्रव्याभ्युपगन्तृत्वेऽपि नोक्तलक्षणासभवो न वा तयोदुनयत्यापत्तिः, द्रव्यार्थिकस्य सर्वथा पर्यायप्रतिक्षेपित्वस्थ पर्यायार्थिकस्य सर्वथा द्रव्यप्रतिक्षेपित्वस्य दुर्नयत्वापादकस्थानभ्युपगमात्, पूज्यश्रीजिनभद्रगणिक्षमाश्रमणप्रभृतिसैद्धान्तिकमते-नैगमः सङ्ग्रहो व्यवहारः ऋजुसूत्रश्चेति चत्वारो भेदा द्रव्यार्थिकस्य, पर्यायार्थिकस्य तु शब्दः समभिरूढः एवम्भूतश्चेति त्रयोभेदाः, नव्यानां वादिमुख्यानां श्रीसिद्धसेनदिवाकराणां मते द्रव्यार्थिकस्य नैगमः सङ्ग्रहो व्यवहारश्चेति त्रयो भेदाः, पर्यायार्थिकस्य पुनः ऋजुसूत्रः शब्दः समभिरूढः एवम्भूतश्चेति चत्वारो भेदाः, तत्र सैद्धान्तिका: "उज्जुसुअस्स एगे अणुवउसे एग दव्यावस्सयं पुहुत्तं णेच्छई" इत्ति सूत्रप्रामाण्याहजुसूत्रस्य द्रव्यार्थिकत्वमामनन्ति, श्रीमिद्धसेनदिवाकरास्तु अतीतानागत-परकीय
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy