SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ (६८) प्रतिनियतनामादिरूपेण स्वीकृतेऽपि घटे यस्सं. थानादिस्तत्स्वरूपेण घटः इति प्रथमभङ्गः, विवक्षितसंस्थानादिव्यतिरिक्तरूपेण चाघटः द्वितीयभङ्गः, या नामादिषु मध्ये नामघटत्वेन स्वीकृतस्य घटस्य संस्थानावयवसनिवेशः स च नामघटो यदि “घट" इत्येतनाम तदा धकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्वीविशेषः, यदि च यस्य कस्यचिद्गोपालदारकादेरयं घटशब्दवाच्य इत्येवं रूपेण घट इति नाम क्रियते स गोपालदारकादिः नामघटस्तदा तस्य गोपालकादेर्यश्शरीरावयवसन्निवेश स संस्थानं तद्रूपेण घट इति प्रथमभङ्गः, निरुक्तसंस्थानव्यतिरिक्तरूपेणाघट इति द्वितीयभङ्गः, एवं स्थापनाघटादिष्वपि प्रथमद्वितीयभङ्गी भावनीयौ, ताभ्यां युगपत्प्रधानतया विवक्षिताभ्यामभिधातुमशक्यत्वादवाच्य इति तृतीयमङ्गः, अत्र यथा विवक्षितेन संस्थानादिना घटः तथा यदि विवक्षितसंस्थानादिव्यतिरिक्तरूपेणापि घटः तर्हि नामघटस्य स्थापनाघटादित्वं स्थापनाघटस्य नामघटादित्वमित्येवं नामादिषु मध्ये स्वीकृतनामादिप्रतिनियतरूपस्यैकस्यापि सर्वघटात्मकत्वप्रसङ्गः, अतो विवक्षितसंस्थानादिरूपेणैव घटो न तदितररूपेणेति प्रथमभङ्गव्यवस्थितिः, एवं यथा विवक्षितसंस्थानादिरूपन्यतिरिक्तरूपेणाघदः, तथा यदि विवक्षितसंस्थानादिरूपेणाप्यघटः, तार्ह अघटे पटादौ यथा न घटार्थिनः प्रवृत्तिः तथा सर्वथाऽघटतामुपगतेऽपि घटे घटार्थिनः प्रवृत्तिनं स्यात्, अतो विवक्षितसंस्थानादि
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy