________________
गूढार्थतत्वालोकव्याख्यासहितः । द्रव्यत्वादी तादृशान्वयबोधोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्नविशेष्यकोपस्थितितदवच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितसामग्येव । धर्मितावच्छेदकतायास्तकार्यतावच्छेदकताविरहेपि द्रव्यत्वादिनिष्ठायास्तकार्यतावच्छेदकधर्मघटकत्वात् ताशसामग्र्याश्चात्मनिष्ठप्रत्यासस्या द्रव्यत्वाद्यवच्छिन्नविशेष्यकघटस्वाद्यवच्छिन्नाद्यभेदबुद्धित्वरूपस्वीयकार्यतावच्छेदकावच्छिन्नोत्पत्ते. रेव व्याप्यतया घटत्वादी धर्मितावच्छेदकतासम्बन्धेन घटत्वावच्छिन्नाभेदबोधापादकत्वं न सम्भ.. .. ..... . .. -..-..--- . . . .-- --...- - --- -- हीतपक्षधर्मत्वस्यापादकस्यानुप्राहिकेति नापत्त्यसंभव इति भावः अथ कारणतावच्छेदकीभूतधर्मावच्छिन्नघदितसमुदायस्यैव भवति सामग्रीत्वमिति घटत्वावच्छिन्नविशेष्यकघटत्वावच्छिनप्रकारकज्ञानादेः कारणतावच्छेदकधर्म विरहेण तदघटितसमुदायस्य न सामग्रीत्वसंभवइति न तस्यापादकत्वमुपपद्यत इत्याशयवानाह । नच धर्मितावच्छेदकतासंबन्धेनेत्यादि । द्रव्यत्वादावितिसप्तम्याः कपाले घटउत्पद्यत इत्यत्रेवावच्छेदकत्वमर्थः अन्वयधास्योत्पत्तौ कार्यनिष्ठाद्यक्षणसम्बन्धरूपाय प्रत्ययानुरोधात्तस्य संबन्धावच्छिन्नत्वमपि स्वीक्रियते । ननु कार्यतावच्छेदकसंबन्धेन कार्याधिकरणं कारणतावच्छेदकसंबन्धेन कारणाधिकरणं वा योदेशस्तस्यैव प्रत्ययानुरोधादवच्छेदकत्वं कलयते तदवच्छिन्नायांतद्धर्मावच्छिन्नकार्योत्पत्तावेव च तद्धविच्छिन्नकार्यतानिरूपितकारणतावच्छेदकावच्छिन्नघटितसमुदायात्मकसामन्याः प्रयोजकत्वमङ्गीक्रियत इति द्रव्यत्वावच्छिनविशेष्यघटत्वावच्छिन्नप्रकारकयोग्यताज्ञानादेः द्रव्यत्वावच्छिन्न विशेष्यतानिरूपितघटलावच्छिन्नप्रकारताकशाब्दबुद्धित्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकधर्मवत्तया तद्धटितसमुदायस्य सामग्रीत्वसंभवेपि कार्यतावच्छेदकेन कारणतावच्छेदकेन वा समवायेन निरुक्तकार्यस्य कारणस्य वाधिकरणेनात्मनावच्छिन्नायामुक्तकार्यतावच्छेदकावच्छिन्नोत्पत्तावेव प्रयोजकत्वं नतु द्रव्यत्वावच्छिन्नायां, घटत्वावच्छिन्नप्रकारकशाब्दत्वावच्छिन्नोत्पत्तौ धर्मितावच्छेदकतायाः कार्यतावच्छेदकसंबन्धत्वविरहेण द्रव्यस्वस्य तादृशंदेशत्वविरहादुक्तशाब्दत्वस्य कार्यतानवच्छेदकत्वाच । नचोक्त नियमेमानाभावइति वाच्यम् तथासति कपाले घट उत्पद्यतइतिवत्पर्वतेघटउत्पद्यतइति व्यवहारापत्तेद्रव्यत्वादौ तादृशान्वयबोधोत्पत्तिप्रयोजिकेत्युक्तिरसङ्गतेति चेन्न उक्तनियमशरीरे हि कार्यतावच्छेदकसंबन्धेन कार्याधिकरणमित्यत्रधर्मसंसर्गसाधारणमेवावच्छेदकलं तद्धर्मावच्छिन्नकार्यतेत्यत्रावच्छेदकत्वमपर्याप्या च विवक्षितम् । यदि कार्यतावच्छेदकसंबन्धेनैव कार्याधिकरणे देशे सामन्याः कार्योत्पत्तिप्रयोजकत्वं स्थाद्धमत्वादेरात्मप्रत्यासत्यभावपक्षेपि कार्यतानवच्छेदकतया धर्मिण्युत्पत्तिव्यवहारो न स्यादुक्तरीत्या तु सोप्युपश्ते महौषध्यादिकं प्रति तादात्म्येन हिमालयादीनां कारणत्वमुपपाद्य हिमालये महौषधयः समुत्पद्यन्ते कुलालगेहे घट उत्प. द्यतइत्यादयो व्यवहारा उपपादनीयाः, तथाच द्रव्यत्वनिष्ठधर्मितावच्छेदकताथा धर्मविधया कार्यतावच्छेदकघटकतया तेन संबन्धेन द्रव्यत्वस्य कार्याधिकरणदेशत्वादुक्तकार्यताया घटत्वावच्छिन्नप्रकारकशाब्दबुद्धित्वघटितधर्मावच्छिन्नत्वाचोक्तसामन्या द्रव्यत्वे निरुक्तशादोत्पत्तिप्रयोजकत्वमव्याहतम् । घटलनिष्ठधर्मितावच्छेदकतायाः घटवावच्छिन्न प्रकारकशब्दलघटित धर्माबविछन्नकार्यतायामनवच्छेदकत्वेन घटत्वे निरुक्तशाब्दोत्पत्तिप्रयोजकत्वं च न कस्याश्चिदस्ति सामन्याइति धर्मितावच्छेदकलादेः कार्यतावच्छेदकसंबन्धनविरहेपि घटलावच्छिन्नप्रकारकशाब्दवत्य कार्यतानवच्छेदकत्वेपि च द्रव्यत्वउक्तशान्दोत्पत्तिरुपपादयितुं शक्यते नच घटल आपादयितुमित्यभिसंन्धाय धर्मितावच्छेदकतायाइत्यायुक्ताशकोन्मेषबीजवाक्यसंवलितं द्रव्यत्वनिष्ठयाइत्यादिहेतुवाक्यसहितं द्रव्यत्वे निरुतशाब्दबोधोत्पत्तिप्रयोजकत्वपरं वाक्यमाह । द्रव्यत्वादी धर्मितावच्छेदकतेत्यादि । सामध्येवेति । एक्कारेण धर्मितावच्छेदकतासंबन्धेन कारणत्वेनाभिमतयोग्यताज्ञानादिघटितसमुदायस्य सामग्रीखव्यवच्छेदः ।
केचित्त द्रव्यत्वादाविति सप्तम्यावृत्तित्वमर्थस्तच शाब्दबोधेऽन्वेति द्रव्यत्वे शाब्दबोधस्य वृत्तित्वमुपपादयितुमाह-द्रव्यत्वनिष्ठायाइत्यादि। अयमाशयः समवायादिसंबन्धस्य कार्यतानवच्छेदकत्वे कालिकपल्यासत्त्या काले प्रत्यासनेभ्यः कारणेभ्यःकालसंबन्धरूपामुत्पत्तिमासाद्य कार्य समवायेनास्सित्रेवात्मन्यधुना वर्तते नान्यति व्यवस्थानुपपत्तेर्यथा समवायादेः कार्यतावच्छेदकसंबन्धत्वमावश्यकं न तथा धर्मितावच्छेदकत्वादेः समवायेन खोत्पादकसामग्यात्मनि समुत्पद्यमानस्य ज्ञानस्य द्रव्यत्वाद्यवच्छिअविशेष्यकत्वादेव धर्मितावच्छेदकतासंबन्धेन द्रव्यलादिमात्रवृत्तित्वसिद्धेरितिधर्मितावच्छेदकतासंबन्धेन कार्योत्पादिकाया अतिरिक्तसामग्या अनावश्यकतया न तथास्ति घटत्वे निरुक्तशाब्दापतिसंभावनापीत्याहुः । तत्रेदमवधेयम् अत्रपक्षे चैत्रे निरुक्तशाब्दबोधउत्पद्यते द्रव्यत्वउत्पद्यत इत्यादौ चैत्रादिवृत्तिनिरुक्तशाब्दबोधउत्पत्याश्रयइत्यस्यैव विषयत्वमङ्गीकार्यम् तथासति अस्य प्रामाण्यवत्स्थलेपद्ममुत्पद्यतइत्यादीनामपि प्रामाण्यं स्यात् उत्पत्तिकाले स्थलस्य विद्यमानतया यथाकथंचित्संबन्धेन तदृत्तित्वविशिष्टपद्मउत्पत्त्याश्रयत्वस्याबाधितत्वात् निरुक्तवृत्तित्वादेः कुप्ततया कार्यतावच्छेदकसम्बधेन बृत्तित्वमात्रविषयताकथनस्य राजाज्ञासमशीलत्वात् धर्मितावच्छेदकत्वस्य वृत्यनियामकत्वेन संबन्धित्वविषयताया अप्युभयत्र समानत्वात् अबच्छेदकस्वाक्गाहितापक्षे च तस्य कल्प्यतया प्रत्ययानुरोधातू' कार्यतावच्छेदकसंबन्धेन कार्याधिकरणएवं कल्पत इति नोक्तदोषः
७ व्यु०
विद्यमानतया,
या कार्यतावर
यामकत्वेन