SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः । मेव सप्तम्यन्तेन बोध्यते तत्र तयाधाता अथाधारसप्तम्या क्रियायां प्रकृत्याधिकरणकत्वं यदि वो. ध्यते तदा चैत्रे चैत्रो गच्छतीत्यादिप्रयोगापत्तिः। तत्र धात्वर्थस्य स्पन्दादेः कादिवृत्तित्वात् । भुवि गच्छत्तीत्यादिश्च न स्यात् । चैत्रनिष्ठक्रियाया भुवि बाधादिति चेन्न । तत्र कर्तृघटितपरम्परासंबन्धावच्छिन्नाधारताया एव सप्तम्यर्थत्वेन सर्वसामञ्जस्यात् । परम्परासंबन्धस्यापि प्रतीतिबलेन कचिदाधारतानियामकत्वोपगमात् । अवच्छेद्यताविशेषोऽप्याधारसप्तम्यर्थः । यथा वीणायां शब्दः, कर्णे शब्दः, वृक्षाने कपिसंयोग इत्यादौ, एषु कारकतानिर्वाहाय भवतीत्यध्याहारः । अथवा सप्तम्यधिकरणेवेति चकारेणाकारकाधारवाचिनोऽपि सप्तमी, अतएव साध्यवद्भिन्नसाध्याभावपदवृत्तित्वमित्यत्र साध्यवद्भिन्ने यः साध्याभाव इति सप्तमीतत्पुरुषेण व्याख्यानं संगच्छते तत्र क्रियाध्याहारे सापेक्षतयाऽसामर्थ्येन समासानुपपत्तेः । चर्मणि दीपिनमित्यादौ निमितात्कर्मयोगइत्यनेन सप्तमीप्रकृस्यर्थवर्मादेहननादिक्रियानिमित्तत्वं बोधयति । निमित्तत्वं चन कारणत्वम् । चर्मादेहननादिक्रियाकारणत्वे मानाभावात् । पूर्ववर्तित्वेऽपि इच्छाकृत्यादिना धासिद्धत्वात्। अपितु कियाजानिका या विनियोज्यत्वेनेच्छा तद्विषयत्व स्वविषयकताह शेच्छाधीनत्वमेव तत्र क्रियान्वयी सप्तम्यर्थः तदेकदेशविषयितायां निरूपकत्वेन प्रकृत्यर्थान्वयः । चर्मादेर्धात्यव्याघ्रादेः संबन्धश्चन सप्तम्यर्थः अपितु सप्तम्या: साधुत्वे स्वरूपसन्नपेक्षितः। गोषु दुथमानासु गत इत्यादौ यस्य च भावनेत्यनेन गवादिपदात्सप्तमी तत्समानाधिकरणदु. ह्यमानादिपदाच नीलं घटमानयेत्यादौ नीलादिपदाद्वितीयावद्विशेषणपदस्य विशेष्यपदसमानविभक्तिकत्वनियमात् । सप्तमीविधायकसूत्रे च भावपदं क्रियापरम् । तथाच यद्विशेषणकृदन्तार्थविशेषणतापनक्रियया क्रियान्तरस्य लक्षणं व्यावर्तनं तद्वाचकपदात्सप्तमीति तदर्थ: । अक्तस्थले गमनादिक्रियादोहनादिसमानकालीनत्वादिपुरस्कारेण बोध्यतयाभिप्रेता। अतो व्यावर्तकविशेषणप्रविष्टताशक्रियाया अपि व्यावर्तकतया तत्कर्माद्यभेदान्धयविशेष्यगवादिपदारलप्तमी । अतस्ताइशसप्तम्याः समानकालीनत्वादिकमात्रमर्थः । तत्र दुह्याद्युपस्थापितदोहनादेर्निरूपकत्वेना. मेवयाहोहनसमानकालीनरवादिकं गमनादौ लभ्यतइति न युक्तम् दुह्याद्युपस्थापितक्रियायाः कवर्थविशेषणतयोपस्थितायाः समानकालीनत्वादिविशेषणत्वासंभवात् प्रकृत्यर्थगवादिनानन्वितस्य सक्षम्या बोधनासंभवास, किंतु समभिव्याहतवोहनादिक्रियैव सप्तम्यर्थः । तस्याश्च समानकालीनत्वाप्रतियोगित्वमित्यस्यासामञ्जस्यात् स्वरूपसंबन्धस्याधारत्व एवं प्रतियोगित्वादिति चेन, तुल्ययुक्तयेत्यस्य यमर्थः समवायो यदि प्रतियोगिनाऽसंबद्धएव संबन्धोऽसंबद्धत्वाविशेषात्सर्वसंबन्धः स्यात् एवमनुयोगिनाट्यसंवद्धस्य तत्र संबन्धत्वेऽसम्बद्वत्वाविशेषात् सर्वत्र संबन्धः स्मादित्युभाभ्यां तस्य संबन्धः सति संबन्धे प्रतियोग्यनुयोगिनोः समवायेसति यथैकस्यापर.. स्थख तथा समवायस्योभाभ्यो संबन्धे उभयस्थत्वमुरीक्रियते अनयैव च युक्तयाऽधारत्वस्यायाधेयेनासंबद्धस्य तदाधारसाव्यवहारप्रयोजकत्वेऽसंबद्धत्वाविशेषात्सर्वत्राधारव्यवहारप्रयोजकतास्यादित्याधेयेन तस्य संबन्धोवाच्य एवमाधारातिरिक्त. स्थतस्याधारेणासंबद्धस्य तत्राधारताव्यवहारप्रयोजकत्वेऽसंबद्धत्वाविशेषात्सर्वत्र तत्प्रयोजकत्वं स्थादित्याधारेणापि तस्य संबन्धोऽभ्युपेयः तथाचोभाभ्यां संबन्धाविशेषाद्दिष्टत्वं तस्य स्यादिति तथाचाधारेण सम्बन्धाद्यथा तत्र घटादौ रूपादेराधेयस्याधारबुद्धिव्यवहारौ तथाधेयेनापि संबन्धात्तन्न रूपादावाधारय घटादेराधारबुद्धिव्यवहारौ स्यातामित्यतिप्रसमस दुर्वारतेति भावः ॥ चर्मादेरिति । यत्र मृगचर्मार्थिना व्याघ्रमहला बने प्रवेष्टुमशक्तेन व्याघ्रो हन्यते तत्र चर्ममि दीपिन हन्तीति प्रयोगः स्यादिति चर्मणा सह व्याघ्रादेयोचयवावयविभावादिसंबन्धस्तस्यापि सप्तम्यर्थलं वाच्य मिति तु न थाच्यं तादृशस्य संबन्धस्यानेकत्वेन शक्त्यानन्त्यप्रसादन्यतमलादिनानुगतधर्मेण शक्तौ तस्यापि शाब्देभानप्रसझात् निरुक्वेच्छाप्रयोज्यत्वमात्रविषयकस्य तादृशसंबन्धाविषयबोधस्यानुभविकलाच तत्र शक्तलक्षणायाश्चानभ्युपगमादगत्या तादृशसूत्रस्य कर्मणा घाल्यादिना निमित्तस्य योगे सति निमित्तबोधकपदान्निमित्तस्वरूपेर्थे सप्तमी साधुरित्यत्र तात्पर्यस्य वक्तव्य खात् तत्र च सम्बन्धस्य कर्मयोगपदार्थस्यान्यतमत्वेन प्रवेशेऽपि क्षत्यभावात् तस्य शाब्दबोधानपेक्षितज्ञानविषयललक्षण खरूपसत्त्वेन साधुखएवोपयोग इति भावः ॥ इति गूढार्थतत्वालोके सप्तम्यालोकः ॥
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy