SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ गूढार्थतत्यालोकव्याख्यासहितः । १४३ विलक्षणविषयतार्थकत्वसंभवः, अपि तु तादृशद्वितीयान्तेन श्यामरूपादिविशिष्टासत्त्वनिर्वाहकतारूपं विशिष्टोच्छेदकत्वं तादृशव्यापारे प्रत्याय्यते । घटं रक्तं करोतीत्यादावपि घटादिपदस्था. रक्तत्वविशिष्टघटादिलाक्षणिकतया विशिष्टघटाघसस्वनिर्वाहकरवं प्रतीयते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव प्रत्याय्यते अतः काष्ठानि भस्मराशिः क्रियन्त इत्यादावाख्याताथेविशेष्यकाष्ठादिवाचकपदसमानवचनस्वमाख्यातस्य नतु निर्वय॑भस्मादिरूपविकारवाचक पदसमानवचनता । अथैवं निर्वय॑कर्मवाचकपदात्प्रथमा न स्यापितु द्वितीयैव । तत्कर्मताया सकारेणानभिधानात् । यत्तुभयकर्मत्वमेव लकारेणाभिधीयते । प्रधानाप्रधानकर्मसमभिव्याहृतनीवहादिदुहादिरूपद्विकर्मकोत्तरकर्मप्रत्ययस्यैव कर्मवयानभिधायकत्वनियमात् । प्रकृते च कर्मजयस्यैव तुल्यत्वात् । विकृतेराख्यातार्थविशेष्यत्वेऽपि आख्यातस्य तत्समानवचनत्वानियमः । "गृढाति वाचकः संख्या प्रकृतेर्विकृतेनही"त्यनुशासनसिद्धप्रकृतिविकृतिसमभिव्याहतलकारीयविकारसंख्याबोधकत्वाभावव्युत्पत्तिनिर्वाह्य इत्युक्तस्थले न क्रियापदस्यैकवचनान्तता। तदर्थान्वितसङ्ख्याबोधकस्यैवाख्यातस्य तत्पदसमानवचनत्वनियमाद्, न तु तद्विशेषणकस्वार्थकर्मत्वादिबोधजनकाख्यातमात्रस्येति । तदसत् । विकारविकारिणोईयोराख्यातार्थविशेष्यत्वे वाक्यभेदापत्तेः। घटपटौ स्तः, घटपटौ दृश्येते इत्यादी विशेष्यभेदेऽपि विशेष्यतावच्छेदकद्वित्वादेरेकधाभानान वाक्यभेदः, अत्र च न तादृशं विशेष्यतावच्छेदकभानमस्ति, येन तवात्राप्येकवाक्यतानिर्वाहः । न चागत्येध्यतएवात्र वाक्यभेद इति वाच्यं तथासत्येकवाक्यार्थपरस्य काष्ठं क्रियते, भस्म क्रियतइत्येतादृशप्रयोगस्यापत्तेः । काष्ठं भस्म क्रियतइतिवाक्यजबोधस्य काष्ठविकृतिर्भस्मान्यविकृतिर्वेति संशयनिवर्तकत्वानुपपत्तेः । काष्ठभस्मनोः प्रकृतिविकारभावाभानादस्मन्मते च काष्ठो. च्छेदकत्वरूपकाष्ठकर्मकत्वभस्मनिर्वर्तकत्वरूपतत्कर्मकत्वयोरेकविशिष्टेऽपरान्वय एवं पूर्वोपदर्शि. तरीत्या काष्ठोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठप्रकृतिकत्वस्य भस्मनि लाभसम्भवादिति चेत् सत्यम् । काष्ठं भस्म क्रियतइत्यादी भस्मादिनिर्वस्य॑कर्मताया लकारेणानभिधानेऽपि तत्कर्मताया धात्वर्थे संसर्गतया भानोपगमेन तादृशकोत्तरं प्रथमायाः साधुता। प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तिसाधुत्वात् । यथा?नम इत्यादौ नमःपदार्थत्यागेऽर्धादिकर्मत्वबोधेऽपि अर्घादिपदात्प्रथमैव ! निपातार्थे त्यागे कर्मतासंबन्धेनैव नामार्थस्यान्वयात् । एवं भूतले मघट इत्यादावपि घटादिसम्बन्धस्याभावे संसर्गतया भानात् षष्ठीविषयेऽपि प्रथमा।नच धात्वर्थ नामार्थस्य साक्षादन्ययोऽव्युत्पन्न इति प्रकृतेः कर्मतायाः संसर्गतया भान न सम्भवतीति वाच्यम्, घटो नीलो भवति, काष्ठं भस्म भवतीत्यादी भवनादिक्रियायां नीलादेः कर्तृतासम्बन्धेन साक्षादन्वयवदनापि व्युत्पत्तिवैचित्र्येण कर्मान्तरविशेषणता पन्नक्रियायामपरकर्मणः कर्मतासंबन्धेन साक्षादन्वयोपगमात् नचैवमपि कर्मत्वस्य प्रकृत्यर्थविशेष्यत्वेन विवक्षया काष्ठभस्मसार्श क्रियतइत्यादिप्रयोगापत्तिः क. मस्याम्तरविशेषणतानापनक्रियायामेव द्वितीयया कर्मत्वं बोध्यतइति व्युत्पत्तिकल्पने गौर्दुयतेक्षीरम ग्राममित्यादी दोहननयनादिक्रियायां क्षीरनामादिकर्मकत्वानन्वयप्रसङ्गति वाच्यम् प्रक तिविकृत्युभयकर्मकस्थले तथा व्युत्पत्तेः । यथोक्तातिप्रसङ्गवारणाय दर्शिता व्युत्पत्तिः कल्प्यते, तथा कर्तृत्वविशेषणतयाऽऽभासमानायां क्रियायां तृतीयार्थकर्तृत्वान्षय इत्यपि व्युत्पत्तिः कल्प्या, अन्यथा प्रकृत्यर्थविशेष्यतया कर्तृत्वविवक्षया काष्ठं भस्मना भवतीति प्रयोगस्य दुर्वारत्वात् । उत्पत्तिप्रयो. जकनाशप्रतियोगित्वरूपविकार एव काष्ठं भस्म भवतीत्यादौ धात्वर्थः । आधेयत्वरूपं तत्कर्तृकत्वमेव सम्बन्धमर्यादया भासते । काष्ठेन भस्मना भूयतइत्यादी भस्माद्याधेयत्वमुत्पत्ती काष्ठाधेयत्वं घ नाशप्रतियोगित्वे तृतीयोगस्थाप्यं प्रकारतया भासते । कर्तृत्वविशेषणतया भासमानस्य निरुक्तभवनस्यान्तर्गतायामेवोत्पत्तौ भस्मादेराधेयत्वं संबन्धतया भासतइति व्युत्पत्ता, काष्ठेन भस्म
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy