SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुक्तिविवेचना १२५ न सत्प्रतिपक्षे हेतुमत्पक्षघटितासाधारण्ये च हेतुमत्पक्षता. वच्छेदकावच्छिन्नविषयत्वमादायाव्याप्त्यापत्तेः एवं गगनाभा. वववभाववत्कालीनघटोगगनाभाववानित्यस्य निश्चयविशिष्टनि श्चयत्वेन प्रतिबन्धकत्वे मेयत्वविशिष्टगगनाभाववत्तारशघटत्व. स्य स्वपदेनाग्राह्यत्वापत्तिः अभाववत्ताडशघटत्वावच्छिन्नविषय. ताशालिनिश्चयत्वेन प्रतिबन्धकतापक्षे चाभाववत्ताडशघटत्वावच्छिन्न. विषयतामादाय बाधे तत्राव्याप्त्यापत्तिः अतोनतिरिक्तवृत्तित्वस्यैव परिष्कृतविशिष्टद्वयाविषयताशून्यत्वघटितस्य वाच्यत्वात् तद. पेक्षया लघोरदुष्टस्प चोक्तदोषवारकप्रकारस्थासम्भवदुक्तिताया अ. सकृदावेदितत्वात् उक्तोभयाभावादिविशेषितप्रतिबन्धकस्वनिवेशापेक्षया विशिष्ठद्वयविषयताशून्यत्वविनाकृतानतिरिक्तवृत्तित्वस्याति लघुत्वेन प्रथमावच्छेदकत्वस्याप्येवन्तद्रूपताया एव युक्तस्वादिति ध्येयम् ॥ ननूभयत्रावच्छिन्नविषयताशून्यप्रतीतिविषयतावच्छेदकत्वमुपेक्ष्य अनवच्छिन्नप्रकारतावच्छेदकत्वमेवोच्यतां लावादितिचेन्न यत्र वाधविषयकं ज्ञाननियमतो दोषान्तरविषयकं तज्ज्ञानमपि नियमतो. बाधविषयकं तत्र वाधत्वस्य स्वपदेन ग्रहणसम्भवात्तत्राव्याप्तिः स्यादिति प्राथमिकतादृशप्रतीतिविषयतावच्छेदकत्वस्यावश्यनिवे. श्यत्वात् द्वितीयस्यापि यत्र मेयत्वविशिष्टव्यभिचारविषयकं शानन्नि यमतोन्यमिचारविशिष्टवाधविषयकं तत्र मेयत्वविशिष्टव्यभिचारत्वा. वच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकस्य स्वावच्छिन्नविषयत्वा. धच्छिन्नवाधव्यभिचारज्ञानप्रतिबन्धकत्ववयावच्छेदकविषयितानिरूप कतावच्छेदकस्य चाप्रसिद्धचा मेयत्वविशिष्टव्यभिचारत्वस्य स्वपः देन ग्रहणासम्भवात् तदवच्छिन्नेऽतिव्याप्त नच व्यभिचारविशिष्टवा. धत्वस्यैव तथाविधस्य प्रसिद्धिरितिवाच्यं तादृशबाधत्वावच्छिन्न विषयकशानस्य नियमतोमेवत्वविशिष्ट व्यभिचारविषयकत्वाभ्युप. गमात् नच वाधविशिष्ठष्यभिचारस्वस्थ तारशस्य प्रसिद्धिरित्यपि वाच्यं सर्व गगनवद्वाच्यत्वादित्यत्र गगनाभाववधटादौ वाविपरीतवा. धादिनिश्चययोरेकरूपेण प्रतिबन्धकत्वे दोषमात्रे चाव्याप्तिवारणाय ताशविषयितानिरूपकतावच्छेदकधर्मे स्वावच्छिन्नविषयत्वाव्याप. कविषयताशून्यप्रतीतिविषयतावच्छेदकत्वस्यापि विशेषणताया वा.
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy