SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुतिविवेचना दूपावच्छिन्नविषयत्वसामान्येऽवच्छेदकत्वस्यान्यतमसम्बन्धेन विव. क्षायामपि वाधविशिष्टव्यभिचारस्वावच्छिन्नविषयतासामान्य एव बाधव्यभिचारनिश्चयप्रतिबन्धकताद्वयावच्छेदकत्वस्थान्यतमसम्बन्धेन सवेनातिव्याप्तेस्सम्भवाश्च । एतेन स्वावच्छिन्नविषयतत्यत्र स्वपदस्य दोषतावच्छदकगतरूपपरत्वेन स्ववृत्तिप्रकारताशून्यप्रतीतिप्रकारता. चरछदकतात्वाधच्छित्रपटाप्त्यनुयोगितावच्छेदकत्वमेव विवक्षणीयं तथाच बाधत्वगतसमुदायत्ववृत्तिप्रकारताशुन्यप्रतीतिप्रकारताव. रुछेदकतात्वावच्छिन्नपात्यनुयोगितावच्छेदकत्वस्य तादृशमेयत्व. विशिष्टवाधत्वगतसमुदायत्वे सम्भवानासम्भवः एवं द्वितीयप्रतिब' धकतावच्छेदकत्वस्य स्वव्यापकतत्कस्वरूपतया व्याप्यकताघटकल. सम्बन्धतया स्वनिरूपित प्रतिबध्यतावच्छदकधर्मपातावच्छेदकताकप्रतिवध्यतानिरूपितप्रतिबन्धकतावस्वस्य प्रवेशेपि नासम्भवः प्रतिबन्धकताया अनेकत्वेपीतिनिरस्तम् ।। मेयत्वविशिष्ठवाधत्वगतसमुदायत्वे विपरीतवाधत्वगतसमुदाय. स्वे चोक्तातिध्याप्तिवारणाय विवक्षितस्याध्यापकविषयताशून्यप्रतीति. विषयतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वस्य विरहादसा म्भवस्य जागरूकत्वादिति । ... ननु स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकरवस्वावच्छि. नविषयत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपक. तावच्छेदकत्वोभयाभावः केवलान्वयि यस्य स्वस्य तद्धर्मवत्यमेव विवक्षणीयम् एवञ्चैकरूपेण प्रतिबन्धकत्वाभावपक्षे नाब्याप्तिरतिव्याप्तिबैतिचेन स्वत्वस्याननुगततया व्यभिचारत्वादे बर्बाधत्वावच्छिन्नावि. षयकप्रतीतिविषयतावच्छेदकत्वेन व्यभिचारत्वावच्छिन्नविषयत्वाव. च्छिन्न प्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकत्वे. न चोभयाभावमात्रस्य केवलान्वयित्वासम्भवात् यत्किञ्चिदुभयाभावस्य केवलान्वयित्वमादाय लक्षपसमन्धयस्येव वहिवाद्यवच्छिन्ने. ऽतिप्रसङ्गस्य सम्भवात् स्वतादात्म्यनिरुक्तोभयसम्बन्धावच्छिन्न. तारशस्वाभाववस्वाभयसम्बन्धेन धर्मविशिष्टधर्मवत्स्वविवक्षायाश्च घटत्वादेरुकोमयसम्बन्धस्य व्यधिकरणत्वेन तेन सदभावस्य घटत्वादो सत्सया तमादायातिप्रसक्त एकरूपेण प्रतिबन्धकत्वाभावे यथा. श्रुतस्यैवैकरूपेण प्रतिबन्धकरवे चेतस्याप्यसम्भवदोषेण सदोषतयो
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy