SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९८ सामान्यनिरुकिविवेचना यत्वयोः विशिष्टविषयत्वरूपयोरुक्तभेद प्रतियोगितानवच्छेदकत्वेन सत्प्रतिपक्षाव्याप्तेश्च । यन्तु प्रतिहेतुध्यापक सान्याभाचत्वावच्छिन्नविषयतानिरूपित सामानाधिकरण्यविषयतानिरूपित हेतुविषयतानिरूपितपक्षविषयत्वावच्छिन्नभेदप्रतियोगिताचच्छेदकत्त्वमेव तत् तथासति हेतुव्यापकसाध्याभावत्वावच्छिन्नविषयताया निरुक्तभेदप्रतियोगितावच्छेदक विषयताभिन्नत्वविरहेण सत्प्रतिपक्षाव्याप्तिविरहात् तदसत् उक्तभेद. प्रतियोगितावच्छेदकत्वस्य हेतुमत्पक्षविषयतायाम्बिरहेण सत्प्रति पक्षघटकतारशविशिष्टद्वयविषयतेति लेखविरोधात् विधेयान्वयस्यो द्देश्यतावच्छेदकावच्छेद्यत्वनियमेन यत्रेत्यादिमन्धसन्दर्भस्यासाधुत्व. प्रसङ्गाच्च पर्वतोवह्निमाञ्जलादित्यत्रापि हेतुमत्पक्षाप्रसिद्ध्या सत्प्रतिपक्षाप्रसिद्धेस्तत्स्थलस्यापि यदर्थत्वेनोद्देश्यतया व्याप्तेस्तत्रासम्भ वाद्धेतुव्यापक साध्याभावस्य प्रसिद्धत्वाद्धेतुमत्पक्षाविषयत्वस्य लक्षणानिविष्टत्वात् विधेयस्योद्देश्यतावच्छेदकावच्छेद्यस्वबाधात् नच सत्प्र तिपक्षविषयिताव्यापकत्वमेव विषयितायान्तत् असम्भवात् सत्प्रति. पक्षविषयितायास्तत्तद्विषयिताव्यभिचारित्वात् यद्रूपावच्छिन्नविष यता सत्प्रतिपक्षविषयताव्यापिका तद्रूपावच्छिन्नत्वन्तु दर्शिताति. प्रसङ्गभयेनैव परित्याज्यमिति चेदुच्यते । सत्प्रतिपक्षविषयताशून्य ज्ञानावृष्तित्वमेव तत् सत्प्रतिपक्षकालीनवहयभाषवज्जलवद्वृत्तिजलवद्द्रदशानीयविषयताया निरुक्तज्ञानावृतित्वेपि तज्ज्ञानस्य यद्रूपावच्छिन्नविषयत्वाव्यापक विषयता शून्यत्व विरहात् तमादाय वहृषभाषवज्जलवद्वृत्तिजलबद्धदेतिप्रसङ्गामा वात् विशिष्टद्वयविषयता शून्यप्रतीतिविषयतावच्छेदकत्वस्य यद्रूप. विशेषणत्वे तु यादृशसमुदायस्वे तादृशप्रतीतिविषयतावच्छेदकता त्वावच्छिन्नपर्थ्याप्त्यनुयोगितावच्छेदकत्वमेव विवक्षणीयमिति नोक्कातिव्याप्तिः उक्तकालीनत्वविशेषितोक्तविशिष्टेऽतिप्रसङ्गश्च विशिष्टान्तराघटितत्वेन वारणीयः यद्वा प्रतिहेतुव्यापक साध्याभावत्वावच्छिन्नविषयताविशिष्टप्रति हेतुमत्पक्षतावच्छेदकावच्छिन्नविषयत्वाव च्छिन्नभेदप्रतियोगितावच्छेदकत्वमेव विवक्षणीयं वैशिष्ट्यश्च स्वनिरूपित्तसामानाधिकरण्यविषयतानिरूपितहेतुविषयतानिरूपित विषयस्वावच्छिन्नत्वसम्बन्धेन तथाच नोक्तग्रन्थासङ्गतिः नवा दर्शिता,
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy