SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । द्रष्टव्यम् । तथा च दर्शपौर्णमासनामधेयसमानाधिकरणैकयजतिपदाभिहितानां षण्णामपि यागामां फलोद्देशेन विधाने न वाक्यभेदः, यथा--" ब्रीहिभिर्यजेत" [ ] इत्यत्रैकपदानो बीहीणां यागोद्देशेन विधौ, अत्र हि प्राप्तेऽपि कर्मणि ब्रीहितद्वहुत्वविशिष्टैककारक विधीयते, " चित्रया यजेत ” [तै. सं. २. ] इत्यत्र संभवत्यपि चित्रवस्तीत्वविशिष्टैककारकविधाने गौरवान्नामधेयाश्रयणम् , तदेवं ब्रीहिवाक्यतुल्यत्वाद् दर्श-पौर्णमासीभ्यामित्यादावेकपदोपात्तत्वान्न वाक्यभेदः, विविदिषन्तीत्यत्र तु भिन्नपदोपात्तानां यज्ञादीनां भिन्नकारकवतां च न व्रीहिवाक्यतुल्यता, "ये मध्यमास्तानग्नये दात्रे" [ ] इत्यादौ तु सत्यपि भेदे सामानाधिकरण्येन प्रति. पादितं विशिष्टदेवताकारकमेकमेवेति न वाक्यभेदः, " यज्ञेन दानेन" [ पत्र- ] इति तु न सामानाधिकरण्यमस्ति । तस्मादेकविधाने अन्याविधानादेकस्यात्मपदस्य श्रोतव्यादिवाक्येष्वनुस्वर्गकामो यजेतेत्यत्र, तत्तत्कालविहितानां षण्णां यज्ञविशेषाणां दर्श-पूर्णमास पदं नामधेयमिति ज्ञातव्यमित्यर्थः । तथा च षण्णामपि यज्ञानां दर्श-पूर्णमासैकपदाभिधेयत्वे व्यवस्थिते च। तत्र दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र । दर्शतिदर्शपौर्णमासनामधेयसमानाधिकरणं यदेकं यजतिपदं तेनाभिहितानामित्यर्थः, भिन्नपदाभिहितानां भिन्नत्वे सति बहूनामेकफलोद्देशेन विधाने वाक्यभेदो भवेत् , बहूनामपि चैकपदोपात्तत्वेनैकत्वे एकीभूतस्य बहोरप्येकफलोद्देशेन विधाने न वाक्य. भेद इत्याशयः । एकपदोपात्तानां बहूनामेकोद्देशन विधाने वाक्यभेदाभावे दृष्टान्तमाह- यथेति । एकपदोपात्तानां ब्रोहिस्वरूपैकपदाभिहितानाम् । विधावियनन्तरं न वाक्यभेद इत्यनुषज्यते । अत्र ब्रोहिभिर्यजेतेत्यत्र । हि यतः । प्राप्तऽपि कर्मणि वचनान्तरविहितेऽपि यागलक्षणकर्मणि । तदहत्वेति-ब्रीहिनिष्टबहुत्वेत्यर्थः । नन्वेवं चित्रया यजेतेत्यत्रापि चित्रत्वस्त्रीत्वविशिष्टैककार कविधानं संभवतीति तदेव किमिति नाङ्गीक्रियते, किमर्थं चित्रापदस्य यागविशेषनामधेयत्वमुररीक्रियत इत्यत आह- चित्रया यजेतेत्यत्रेति । एवं च दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्रैकय जतिपदोपात्तानां पण्णामपि यज्ञानामेकस्वर्गफलोद्देशेन विधाने न वाक्य मेदः, प्रकृते तु यज्ञदानादीनां भिन्नपदोपात्तानां विभिन्नतृतीयाविभक्तिबोध्यकरणत्वलक्षणभिन्नकार कक्तां विविदिषालक्षणैकफलोद्देशेन विधानेऽपि वाक्यभेदः स्यादेवेत्युपसंहरति- तदेवमिति । व्रीहिवाक्यतल्यस्वादिति- ब्रोहिभिर्यजेतेति बाक्ये ग्रथा ब्रोहिस्वरूपैकपदोपात्तत्वं बहूनां तीहीणां तथा दर्शपूर्णमासाभ्यो यजेतत्यत्राप्येकय जतिरदोपात्तत्वं षण्णामपि यागानामित्येवं ब्रीहिवाक्यतुल्यत्वादित्यर्थः । प्रकृते तु नैवमित्युपदर्शयति-विविदिषन्तीत्यत्र विति । यज्ञादीनामित्यत्रादिपदाद् दानादीनामुपग्रहः । कचित् कियादिस्वरूपमेदेऽपि देवताकारकैम्यादकत्वमिति न वाक्यभेद इत्युपदर्शयति- ये मध्यमा इति - त्रिः प्रथमां निरुत्तमां त्रिर्मध्यमामन्वाहेत्येवं क्रियान्तरे प्रथमादीनामृचां त्रिरावृत्त्या विधानात् तत्र दातृनामकाग्निदेवतायै मध्यमानाम्नामनेकेषामृचां विधानेऽपि अग्नये दात्रे इति सामानाधिकरण्येन प्रतिपादितं दातृत्वविशिष्टाग्निदेवतालक्षणसंप्रदान कारकमेकमेवेति ये मध्यमा इत्यत्र न वाक्यभेद इत्यर्थः । विभिन्न प्रवृत्तिनिमित्तकपदानामभेदने कार्यान्वितस्वार्थप्रतिपादकत्वं सामानाधिकरण्यम् , तचाग्नये दात्रे इत्यत्र समस्ति, यज्ञन दानेनत्यत्र तु न यज्ञपदार्थस्य यागस्य दानपदार्थे दानेऽभेदेनान्वय इति न सामानाधिकरण्यमतो न विशिष्टकारकमेकमिति वाक्यभेदः स्यादेवत्याह- यशेन दानेन इति स्विति । प्रकृते वाक्यभेदः स्यादेवेति सङ्गमयतितस्मादिति । यत्रैकवाक्ये एकविधानेऽप्यन्य विधानं यत्र दृश्यते तत्र च भवति वाक्यभेदः, यथा- "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्यः"बृहदारण्यके २. ४. ५.] इत्यत्र श्रवणविधानेऽपि मननादिविधान इत्याह-एकस्येति । "नुसङ्ग" इत्यस्य स्थाने "नुषङ्ग" इति पाठो युक्तः, श्रोतव्य इत्येतावन्मात्रश्रवणे उद्देश्यवाचकपदाभावात् कमुद्दिश्य श्रमणविधानम्, एवं मन्तव्य इत्यादावपि, आत्मपदस्यानुष ने तु आत्मा श्रोतव्यः, आत्मा मन्तव्यः, आत्मा निदिध्यासितव्यः, आत्मा साक्षात्कर्तव्य इत्येवं प्रत्यकमात्मपदानुषणाद् यथा वाक्यभेदस्तथा प्रकृतेऽपि यज्ञेन विविदिषन्ति दानेन विवि. दिषन्ति तपसा विविदिषन्तीत्येवं प्रत्येक विविदिषन्तीति पदस्यानुषङ्गाद् विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्यर्थः । यत् तु पूर्वमुक्तम्-“अत्र त्वेकवाक्योपात्तत्वाद् दर्शादिवत् समुच्चयः" इति तत्र पृच्छति-कथं तहि समञ्चय इति । उत्तरयतिउच्यत इति । " अरुणया क्रीणाति वा समाकीणाति" इत्यस्य स्थाने “अरुणया सोमं क्रीणाति गवा सोमं क्रोणाति"
SR No.008445
Book TitleNayopadesha Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy