SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । त्प्रयोगाधारत्वम् , प्रयोगत्वं च तत्सदर्थोपस्थित्यनुकूलव्यापारत्वं लिप्युञ्चारणादिसाधारणं तदादेर्बुद्धिस्थस्ववल्लडादेः शक्यतावच्छेदक(क) तत्तत्कालानुगमकम् , तच्च वर्तमानत्वमतीतत्वं वा धात्वर्थेऽन्वेति, धातूत्तरप्रत्ययजन्यकालप्रकारकबोधे समानविशेष्यत्वप्रत्यासत्त्या धातुजन्योपस्थितेहेतुत्वात् , अत एव नातीतघटज्ञानाश्रये 'घटं जानामि' इति प्रयोगप्रसङ्गः, न चैवमारम्भसमये पचतीति प्रयोगो न स्यात् तदा कार्या( पाका )भावादिति वाच्यम् , स्थूलकालमादाय तत्समाधानात् , तस्मात् क्रियमाणं कृतरण्यम् । तदादेरिति- यथा च 'घटोऽस्ति तमानय, पटोऽस्ति तं पश्य' इत्यादौ तच्छब्देन घटत्व पटवादिना घटपटादीनां बोधोपपत्तये तच्छब्दस्व घटत्व-पटत्वादिकं प्रवृत्तिनिमित्तम् , तदनुगमकं च बुद्धिस्थत्वम् , बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्ने शक्तत्वेऽपि न नानार्थत्वं प्रवृत्तिनिमित्तोपलक्षकस्य बुद्धिस्थत्वस्यकत्वात्, तथा प्रकृतेऽपि लडादेः शक्यतावच्छेदकवर्तमानकालाद्यनुगमकं तत्तदर्थोपस्थित्यनुकूलव्यापाराधाराकालत्वप्रविष्टनिरुक्तव्यापारत्वमिति लिपिकालोधारणकालत्वादिना भेदेऽपि न नानार्थत्वमित्याशयः । आनश्प्रत्ययार्थस्य वर्तमानत्वस्य निष्ठार्थस्य चातीतत्वस्य धात्वर्थ एवान्वय इत्यत्र हेतुमुपदर्शयति-धातूत्तरेति-विशेष्यतासम्बन्धेन धातूत्तरप्रत्ययजन्यकालप्रकारकबोधं प्रति विशेष्यतासम्बन्धेन धातुजन्योपस्थितिः कारणम् , तथा च प्रकृते क्रियमाणमित्यत्र धातूसरानश्प्रत्ययजन्यवर्तमानकालप्रकारकबोधो वृत्तित्वसम्बन्धेन वर्तमानकालप्रकारककृतिविशेष्यको विशेष्यतासम्बन्धेन कृतौ भवति तत्र कृधातुजन्या कृतित्वनिष्ठनिरवच्छिन्नप्रकारतानिरूपितनिरवच्छिन्न कृतिनिष्ठ विशेष्यतानिरूपिकोपस्थितिर्विशेष्यतासम्बन्धेन वर्तत इति भवत्युक्तकार्य. कारणभावात् तत्र कृतित्वावच्छिन्न विशेष्य काधयत्वसम्बन्धेन वर्तमानकालप्रकारकशाब्दबोधः, एवं कृतमित्यत्र धातूत्तर. कप्रत्ययजन्यातीतकालप्रकारकबोधो, वृत्तित्वसम्बन्धेनातीतकालप्रकारककृतिविशेष्यको विशेष्यतासम्बन्धेन कृतावुत्पद्यते. वत्र कृधातुजन्या कृतित्वनिष्ठनिरवच्छिन्नप्रकारतानिरूपितनिरवच्छिन्नकृतिनिष्ठविशेष्यतानिरूपिकोपस्थितिर्वर्तत इत्यतस्तत्र कृतित्वावच्छिन्नविशेष्य काधेयत्वसम्बन्धेनातीतकालप्रकारकशाब्दबोध इति । अत पवेति- विशेष्यतासम्बन्धेन धातूसरप्रत्ययजन्यकालप्रकार कबोधे विशेष्यतासम्बन्धेन धातुजन्योपस्थिते: कारणत्वमित्येवं कार्यकारणभावबलाद् धात्वर्थ एव प्रत्ययार्थस्य कालस्यान्वयादेवातीतघटज्ञानाश्रयः पुमान् 'घटं जानामि' इति न प्रयुझे, घटविषयकवनमानज्ञानाश्रयो. ऽहमित्येव ततो बोध उपजायत, अतीतघटज्ञानाश्रये च घटविषयकवर्तमानज्ञानाश्रयत्वस्याभावान्न तथा प्रयोगप्रसन इत्यर्थः । ननु यदि प्रत्ययार्थकालस्य धात्वर्थ एवान्वयस्तदा पाको यदाऽऽरभ्यते तदानीं पाकस्यामावान्न तदानी पाकस्य वर्तमानकालवृत्तित्वमिति तदानीं पचतीति प्रयोगो न स्यात् , धारवयं पाके वर्तमान कालवृत्तित्वस्य बाधा. दिल्याशय प्रतिक्षिपति-न चैवमिति । आरम्भसमये पाकारम्भसमये, पाक कर्तुमुद्यतस्येन्धनाग्निसंयोजन-चूल्हिकोपरिपाकपात्रस्थापन-तद्गतजलप्रक्षेपादिकाल इति यावत् । निषेधे हेतुमाह-स्थलकालमिति- 'चूल्हिकोपरिपाकपात्राचारोपणसमयादारभ्य तण्डुलाधोदनादिभावनिष्पत्तिसमयमभिव्याप्य स्थितं स्थूलकालमुपादाय तदात्मकवर्तमानकालवृत्तिपाकक्रियानुकूलकृतिमत्त्वस्य पाककर्तरि सद्भावात् तदर्थकः पयतीति प्रयोगः पाकारम्भसमयेऽप्युपपद्यत इत्यर्थः । यदा च क्रियमाणमिखत्र वर्तमानकालवृत्तित्वस्यानशोऽर्थस्य कृतमित्यत्र निष्ठार्थस्यातीतत्वस्य च कृतावेव धात्वर्थेऽन्वयस्तदा क्रियमाणं कृतमिति वाक्यात् तत्तदर्थोपस्थित्यनुकूलव्यापारात्मकप्रयोगाधारकाललक्षणवर्तमानकालवृत्तिकृतिविषयस्तत्तदर्थोपस्थित्यनुकूलव्यापारात्मकप्रयोगाधारकालवृत्तिध्वंसप्रतियोगिकालवृत्तिकृत्तिविषय इत्येवं बोधः क्रियमाणे कृतत्वान्वयायोग्यत्वान्न सम्भवतीत्युपसंहरतितस्मादिति । धात्वर्थे प्रत्ययार्थकालान्वयमुपपाद्य क्रियमाणं कृतमित्यत्रान्वयानुपपत्तिर्या भवता दर्शिता सा तदा सजता स्याद यदि धात्वर्थे प्रत्ययार्थकालान्वय इत्येव व्यवतिष्ठत, परं तथोपगमे आरम्भसमये पचतीति प्रयोगानुपपत्तिरपरिहार्यैव स्यात्. तन्त्र स्थूलव्यवहारव्युत्पत्तिसमाश्रयणेन स्थूलकालमुपादाय स्थूलकाललक्षणवर्तमानकालवृत्तिपाकानुकूल कृतिमानित्यर्थकत्वेन पचतीति प्रयोगोपपादनं तदा शोभेत यदि स्थूलव्यवहारव्युत्पत्तिर्भवेत् , न चैवम् , अन्यापोहशब्दार्थवादिना निश्चयेन शुद्धर्जुसूत्रेण स्थूलव्यवहारव्युत्पत्तेरनाहतत्वेन तदधीनाभ्युपगमविषयस्य स्थूलकालस्यैवाभावात् , व्यवहारमात्रं तु न वस्तुसिद्धिनिबन्धनम्, व्यवहारस्य वस्तुसिद्धिनिबन्धनत्वे पुरुषो व्याघ्र इति व्यवहियमाणप्रयोगात् पुरुषस्यापि व्याघ्रत्वं प्रसज्येतेत्यतः कालवृत्तिताविशेषरूपस्य निष्ठार्थस्य वर्तमानत्वेन सहाविरोधमभ्युपेत्य क्रियमाणं कृतमित्यत्रान्वयः स्वीकरणीय इति समाधत्ते-नेति । स्थलेतिस्थिरपदार्थाभ्युपगन्तृत्वेन स्थूलो यो व्यवहारनयस्तस्य स्थूलव्यवहारोपपादनाय या व्युत्पत्तिस्तस्या निश्चयेन ऋजुसूत्राख्य
SR No.008444
Book TitleNayopadesha Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy