SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। प्रत्येकं गौणमुख्यभावेन तदुपगमे च सङ्ग्रह-व्यवहारान्यतरप्रवेशः स्यादिति चेत् ? न- तृतीयपक्षाश्रयणे दोषाभावात् , कचित् सङ्ग्रह-व्यवहारसमानविषयत्वेऽपि कचिदेकस्य सत उभयग्रहणोपयोगव्यावृत्तत्वेन तदतिरेकात्, अत एव न संयोगेनान्यथा सिद्धिः, प्रत्येकविषयताद्वयातिरिक्तस्वतन्त्रविषयताकत्वादिति दिक् ॥ २१ ॥ सङ्ग्रहं लक्षयति-~ सङ्ग्रहः सङ्ग्रहीतस्य पिण्डितस्य च निश्चयः। सद्भहीतं परा जातिः पिण्डितं त्वपरा स्मृता ॥ २२॥ नयामृत०-सङ्ग्रह इति । सङ्ग्रहीतस्य पिण्डितस्य च निश्चयः सङ्ग्रहः, तत्र सहीतं परा- सर्वध्यापिका जातिः, सत्ताख्यमहासामान्यमिति यावत् , पिण्डितं त्वपरा- देशव्यापिका जातिः, द्रव्यत्वादि सामान्यमिति यावत् , यद्यप्येतदुभयसाहित्यं प्रत्येकग्राहिण्यव्याप्तं प्रत्येकग्राहित्यं चाननुगतं तथापि भिन्नत्वमपि तत्र देयमिति विभावनीयम् । तटस्थः शङ्कते • अथेति । अनेन नैगमनयेन । स्वतन्त्रेति-- अ भिनेत्यर्थः । कणादवदिति- वैशेषिकदर्शनसूत्रणसूत्रधारः कणादनामा मुनिद्रव्य-गुण-कर्म-सामान्य विशेष समवायभेदन षड भावानररीचकार, तत्र सामान्यविशेषयोरत्यन्तभेदमेव सोऽभ्युपगतवानिति तन्मतस्य यथा दुर्नयत्वं तथा नैगमस्यापि दुर्नयत्वं स्यादिस्यर्थः, शबलतदभ्युपगमे चेति-- सामान्येन सह कश्चिदभिन्नो बिशेषो विशेषेण सह कथञ्चिदभिन्न सामान्यमित्येवमन्योन्यमिश्रितयोः सामान्य-विशेष यो गमेनाभ्युपगमे पुनरित्यर्थः । प्रमाणत्वमेवेति- सामान्य-विशेषोभयात्मकबस्वभ्युपगन्तृत्वमेव प्रमाणत्वम् , सामान्य-विशेषोभयात्मकवस्त्वभ्युपगमे नेगमस्य तत् प्रसज्यते. तथा च नयत्वं तस्यैकदेशाभ्युपगमन्तृत्वाभावान स्यादित्यर्थः । यथास्थानमिति- यत्र यद् विवक्षितं तत्र तदनतिक्रम्येत्यर्थः । प्रत्येकमितिकचित् सामान्यस्य मुख्यतया विशेषस्य गौणतयोपगमः, ऋचित् पुनर्विशेषस्य मुख्यतया सामान्यस्य च गौणतयाभ्युपगम इत्येवं प्रत्येक गौण मुख्यभावेन सामान्य विशेषयो गमेनाभ्युपगमें चेत्यर्थः ! सङ्घहेति- यत्र सामान्यस्य प्राधान्येनावमाहन विशेषस्य गौणतयाऽवगाहनं तस्य नेगमस्य सङ्ग्रहेऽन्तर्भावः, यत्र विशेषस्य प्राधान्येनावगाहनं सामान्यस्य गौणतयाsवगाहन तस्थ नैगमस्य व्यवहारेऽन्तीव इति सङ्ग्रह-व्यवहाराभ्यामेव नगमाभ्युपगमस्योपपत्तेनैगमनयोऽतिरिक्तो न भवेदित्यर्थः । समाधत्ते-नेति । तृतीयपक्षाश्रयणे इति- यथास्थान प्रत्येक गौ-मुख्यभावेन सामान्य-विशेषयोनंगमेनोपगम इति पक्षाश्रयणे दोषाभावादित्यर्थः । ननु तत्पक्षे नैगमस्य सङ्ग्रह-व्यवहाराभ्यामेव गतार्थत्वादतिरिक्तनयविशेषरूपता न स्यादिति दोषः संलग्न एवेति न दोषाभाव इत्यत आह-कचिदिति- यत्र सामान्यस्य प्राधान्येनावगाहनं विशेषस्य गौणतयाऽवगाहनं तत्र नैगमस्व सङ्ग्रहसमानविषयत्वम् , यत्र विशेषस्य प्राधान्येन सामान्यस्य गौणतयाऽवगाहनं तत्र नैगमस्य व्यवहारसमानविषयत्वमित्येवं कचिन्नगमस्य सङ्ग्रह-व्यवहाराभ्यां सह समानविषयत्वेऽपि यत्रैकस्यैव नैगमाध्यवसायस्य सतः प्राधान्येन सामान्यस्य प्राधान्येन विशेषस्य चाभ्युपगमे पटीयस्त्वं तत्र नैगमस्य सङग्रहव्यवहाराभ्यामसमानविषयत्वेन ताभ्यां तस्य भेदादित्यथे, 'उभयग्रहणोण्योगव्यावृत्तत्वन' इत्यस्य स्थाने 'उभयग्रहणोपयोगव्यापृत्वेन' इति पाठो युक्तः। अत एव कचिदेकस्य नैगमाध्यवसायस्य प्राधान्येन सामान्य विशेषोभयग्रहणोपयोगव्यापृतत्वादेव। संयोगेन सङ्ग्रह-व्यवहारयोलनेन, न अन्यथा सिद्धिः अतिरिक्तनैगमाभावेन प्राधान्येन सामान्य-विशेषोभयलक्षणविषयसिद्धिनेत्यर्थः । 'अत एव' इत्युपदिष्टमेव निषेधहेतुमुपदर्शयति प्रत्येकेति- सङ्ग्रहानिरूपिता या प्राधान्येन सामान्यगता विषयता या च व्यहारनिरूपिता प्राधान्येन विशेष्यगता विषयता, ताभ्यामतिरिक्ता या स्वतन्त्र प्रधानीभूत-सामान्य विशेषो. भयगता विषयता तनिरूपकत्वान्मिलित सहव्यवहारोभयावृत्तेनेगमस्य भिलितसङ्कहव्यवहारोभयभिन्नत्वादित्यर्थः ॥ २१ ॥ द्वाविंशतितमं पद्यमवतारयति- सङ्ग्रहं लायतीति । विवृणोति-सङ्ग्रह इतीति । एतदुभयग्राहित्वं परसामान्याऽपरसामान्योभयग्राहित्यम् । प्रत्येकग्राहिण्यस्यास, केवलमहासामान्यपाहिणि पररामहे केबलावान्तरसामान्यग्राहिण्यपरसाहेऽव्याप्तं न वर्तते, तथा च सङ्ग्रहद्यावृत्तित्वादसम्भवदोषग्रस्तमिदं लक्षणमिति भावः। प्रत्येकग्राहित्यं.
SR No.008444
Book TitleNayopadesha Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy