SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २४ तत्वोपप्लव सिंहे यदि निर्विषया; तदा गृहीतार्थग्राहिणी कथम् ? गृहीतार्थग्राहिणीति चेत्; ' निर्विषया' इति न वक्तव्यम् । नच निर्विपया - ' मातरं पितरं शुश्रूषितवानहम्' 'सन्ति मे पंचभृत्याः ' इति पूर्वानुभवावेदितार्थाकार पर्यवसायिन्यो हि स्मृतयः, स्मृति5ज्ञानेन पूर्वानुभवावेदितार्थाकारस्य प्रतिभासनात् । अथ स्मृतिविज्ञानका पूर्वप्रबोधविषयीकृतार्थस्य प्रत्यस्तमितत्वान्न तद्विषयत्वम् । एवं च निर्विषयत्वेन स्मृतेरप्रामाण्यं न गृहीतार्थ - ग्राहित्वेन इत्युक्तम् । यदि च अवधारितार्थविषयं प्रमाणमप्रमाणमुपपाद्यते; 10 तदाऽनुमानज्ञानस्य अप्रामाण्यमापनपद्येत । तदेव कथम् ? कथ्यते यदेव अविनाभावसम्बन्धग्रहणकालावधारितम् अग्निस्वसामान्यं लिङ्गाजहद्वृत्तित्वेन प्रत्यक्षेण तदेव अनुमानादवगच्छति, आहोस्वित् पावकस्वरूपम्, मत्वर्थे वा लिङ्गव्यापारसमानकालीनता ( लीना ) स्तित्वं वा लिङ्गोपसर्जनत्वं वा, 15अग्निव्यक्तिपारतन्त्र्यं वा अग्नित्वसामान्यस्य ? तद्यदि पूर्वावधारितसामान्यविषयमभ्युपेयते; तदा प्रामाण्यं नैव समासादयति गृहीतार्थ ग्राहित्वेन स्मृतिवदेव । तदप्रामाण्ये नाग्निमत्त्वव्यवस्थापपत्तिः तदनुपपत्तौ वा अर्थापत्त्या अग्निव्यक्तिसंस्थितिः । ततश्च 'अमुत्राग्निः' 'अग्निरानीयताम्' इति सकललोकव्यवहार20 विरहः स्यात् । अथ मा भूदेतद्व्यवहारहानिरिति चेत्पूर्वावधारितेप्यर्थे अनुमानस्या (स्य) प्रामाण्यमभ्युपेयते; तदा अनधिगतार्थगन्तृविशेषणमपार्थकं श्रोत्रियाणामिति । अथ पावकस्वरूपमनुमिमीषे; तत् लिङ्गाजहदूत्तित्वेन पूर्वमवधारितं वा न वा ? यदि पूर्वोपलब्धम् ; अधिगतार्थविषय25त्वमायातमनुमानस्य । अथ न पूर्वोपलब्धम् ; अध्यापकोऽग्निः अनुमानात्तर्हि प्रतीयते, तदभ्युपगमे तृणजलादिविषयमप्यनुमानं प्रसज्यते ।
SR No.008434
Book TitleTattvopaplavasinha
Original Sutra AuthorN/A
AuthorJayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy