SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ९. ताथागतसंमतस्यानुमानस्य निरासः १०७ अथ सहेतुके विनाशे नावश्यंभावो विनाशस्य , वस्त्रे रागवत् कारणव्यापारपराधीनवृत्तित्वात् , तद्भावे तस्याभावः कथं भवेत् ? तदयुक्तम् , खहेतोरेव ध्रुवभाविविनाशाहस्योत्पत्तेः । भवतु वाऽभावस्यानुद्गमः न कश्चिद्विरोधः। न तु निर्मोक्षप्रसंगो गुणानां विनाशानुत्पत्तेः; नेदमस्मद्विरोधेषु 5 राजते, मोक्षपरिकपत्यकरणात् । ___ अथ कृतकस्य नित्यत्वं प्राप्नोति विनाशासंभवे सति ; सावधिका सत्ता अनित्या, निरवधिका तु नित्या, तत्कथं कृतकस्य नित्यत्वं विनाशासंभवे सति ? भवतु वा नित्यत्वम्, न दोषोऽस्ति । 10 [$ १८. प्रत्यक्षग्राह्यत्वेन उपपादितस्य क्षणिकत्वस्य खण्डनम् । ] यदप्यपदिष्टम् - " प्रत्यक्षेण क्षणिकत्वं वस्तूनां विषयीक्रियते, अतीतानागतकालविकला वस्तुसत्ता वर्तमानकालालिङ्गिता प्रत्यक्षेण आत्मसात्क्रियते "-तदेतद्युक्तम् , अतीतानागतवर्तमानकालानां किं प्रतीयमानाव्यतिरेकित्वम् , व्यति-15 रेकित्वं वा ? तद्यदि अन्यतिरेकित्वम् ; तदा कालत्रयानुमतं वस्तूपलब्धम् । अथ व्यतिरेकित्वम् : वस्त्ववगमे न अतीतानागतवर्तमानकालावगतिरस्ति । वस्तुमात्रोपलब्धेस्तदस्तित्वं सिद्धम् , तभावश्च निष्प्रमाणकः । अथ स एव भावोऽभावा; भावोऽन्यस्तर्हि वक्तव्यः,20 अभावस्य सर्वोपाख्याविनिवृत्तिलक्षणत्वात् । अथ कालान्तरे तस्य अन्योऽभावः तस्याकिंचित्करत्वात् सत्ताखण्डनं प्रति । अथापरकार्याकर्तृत्वं कालान्तरे तदभावः; तयुक्तम् , सर्वापरकार्यकर्तृत्वमेकस्य प्रत्यक्षात् प्रत्यभिज्ञानेन च पूर्वोदितानुभवावेदिता सत्ता आत्मसात्क्रियते सैव सत्ता प्रत्यभि-25 ज्ञानेन आत्मसात्क्रियते । कथं पुनर्वेत्सीति चेत्, प्रत्यभिज्ञा
SR No.008434
Book TitleTattvopaplavasinha
Original Sutra AuthorN/A
AuthorJayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy