SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९. ताथागतसंमतस्यानुमानस्य निरासः । ८९ उभयावगाहकं गीयते; तदा ज्ञानस्य अक्षणिकत्वमापद्यते धमहेतोर्वा । अथ प्रतिनियतेन ज्ञानेन पूर्वापरावधारणं क्रियते ; तद्युक्तम् , धूमावगाहकेन विज्ञानेन तत्सत्तामात्र प्रद्योत्यते । तत्स्वरूपमात्रपर्यवसायिना तत्स्वरूपास्तित्वं विधीयते तदुक्तम्- 5 " सामान्ये सिद्धसाध्यता”। सामान्ये धूमास्तित्वमात्रे धूमज्ञानस्य प्रामाण्यमस्ति । "विशेषेऽनुगमाभावः”। विशेषे भेदे दहनेन सह पूर्वापरविकल्पो(ल्पे) अनुगमाभावः व्यापाराभावः । न शक्नोति धूमज्ञानमवगन्तुम् - 'किमेतद् धूमस्वरूपं दहनात् पूर्व सह 10 पश्चाद्वा जातम् ?' धूमज्ञानस्य दहनात्मा पिशाचतुल्यतया व्यवस्थितः - यथा धूमज्ञानं पिशाचादिस्वरूपं न विषययति तेन सह पूर्वापरसहभावं न शक्नोति स्थापयितुं धूमस्य; दहनस्यापि धूमज्ञानेन स्वरूपं नावसितम्, तेन सह पूर्वापरसहभावेन धूमज्ञानं धूमस्वरूपं नावगन्तुं शक्नोति । 15 __ अथ यद्यपि धूमज्ञानं दहनस्य स्वरूपं न विषययति तथापि स्वज्ञानेन दहनस्वरूपं विषयीक्रियते, पिशाचादेस्तु स्वरूपं न केनाप्यवसितम्, तेन सह पूर्वापरभावो नावगम्यते धूमस्य; तदेतदयुक्तम्, दहनज्ञानेनापि दहनास्तित्वमात्रमवसितम् , न तु धूमेन सह पूर्वापरसहविकल्पः । सती सत्ता दहनज्ञानेन 20 प्रद्योत्यते । सा तु धूमात् किम् - पूर्व सह पश्चाद्वा चिरोत्पन्ना प्रत्ययोत्पन्ना अनुत्पन्ना वा ? नायं दहनज्ञानव्यापारस्य विषयः अपि तु तत्सत्तामात्रप्रतिबद्धं तदस्तित्वं विदधाति । पिशा- .. चोऽपि स्वज्ञानेनावगतः । कथं ? ज्ञायते, सोऽपि स्वज्ञानावगाहितदेहोऽस्तु - यदि नाम तेन सह धूमज्ञानं पूर्वापरसहभावं25 न शक्नोति प्रकाशयितुं धूमस्य । १२ त.
SR No.008434
Book TitleTattvopaplavasinha
Original Sutra AuthorN/A
AuthorJayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy