SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ षोडशोऽध्यायः । उत्तरभागः गुणांशं नलकातारं षडंशं तलविस्तृतम् । पाणिव्यासं युगांशं स्याच्छेषं युक्त्या प्रकल्पयेत् ॥११॥ .. अथ मध्यमं चतुस्तालम् । उष्णीषं चैकभागेन केशान्तं च तथा भवेत् । वस्वशं तु मुखायाम गलमश्व्यंशमेव च ॥ १२ ॥ हिक्कादिहृदयान्तं तु पंडङ्गलमुदाहृतम् । हृदयान्मेपर्यन्तं षडङ्गुलमुदाहृतम् ॥ १३ ॥ दशांशमूरुदीर्घ स्याद् द्यगुलं जानुतुङ्गता। जङ्घादीर्घ तुरुतुल्यं द्विभागं चरणोदयम् ॥ १४ ॥ मन्वंशं तु करायाम मध्यमाङ्गलिसीमकम् । शेषं युक्त्या तु कर्तव्यमुक्तमार्गानुसारतः ॥ १५ ॥ त्रिोकतालमेयानां प्रतिमानां विचक्षणः।. अङ्गोपाङ्गादिमानानि प्रोनयेत् पूर्वशास्त्रतः ॥ १६ ॥ इति शिल्परत्ने उत्तरभागे चतुस्तालविधिर्नाम पञ्चदशोऽध्यायः ॥ अथ षोडशोऽध्यायः । अथ किरीटादिलक्षणम् । अत्रैकाङ्गुलसम्मितेन परिवेष्टयोष्णीषपट्टेन के . कोटीरं मकुटोज्ज्वलं विरचयेदष्टाङ्गलैः सर्वतः । घ्यष्टाभिधृतिसम्मितैर्दिनकरद्वन्द्वप्रमैरङ्गुलै रुष्णीषोपरि भासमानमकुटोपेतं किरीटं हरौ ॥ १ ॥ १. 'ध्यं' ख. पाठः. २. 'रसागु' ख. ग. पाठः,
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy