SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ शिल्परले उत्तरमा तलाग्रस्य ततिः सार्धषडङ्गलमिति स्मृतम् । पार्ष्यायामं विशालं च गुणाङ्गुलमुदाहृतम् ॥ २२ ॥ द्वादशाष्टषडंशार्धषट्पश्चकयवैः क्रमात् । अङ्गुष्ठादिकनिष्ठान्तपादाङ्गुलिविशालकम् ॥ २३ ॥ तत्रिपादं नखव्यासं व्यासार्धं तत्तदायतम् । ..." यद्यन्नोक्तं ततस्तांस्तान् कारयेत् पूर्वमुक्तवत् ॥ २४॥ अथान्यथा--- अश्व्यगुलं तु केशोच्चं सप्तांशं मुखमानकम् । ग्रीवोच्चं तु युगांशं स्यात् तस्माच्चूचुकमंशेतः ॥ २५ ॥ तस्मान्नाभिस्ततो मेद्रं सप्तभागेन कल्पयेत् । भान्वंशमूरुदीर्घ च जानुदीर्घ द्विभागतः ॥ २६ ॥ जवादीर्घ द्वादशांशं यंशं पादतलोन्नतम् । दशांशं तु तलायाम मन्वशं बाहुमानकम् ॥ २७ ॥ प्रकोष्ठायतमाशांशं तलायाम युगांशकम् । तत्समं मध्यमायाममन्यत् सर्वं पुरोक्तवत् ॥ २८ ॥ अथ मध्यमपञ्चतालेन विघ्नेशः । विघ्नेशं शरतालकैर्विरचयेत् त्र्यक्ष महेभाननं गूढाभुमगलं स्थितं समुपविष्टं वातिपीनाङ्गकम् । उष्णीषान्मुखमेककेन सदलाभ्यां तालकाभ्यां ततः कट्यन्तं चरणो कराश्च करणीयाः सार्धतस्तालतः॥२९ ।। इति शिल्परत्ने उत्तरभागे पञ्चताललक्षणं नाम चतुर्दशोऽध्यायः ।। १. 'ल' ग. पाठः . २. क' क. ख. ग. पाठः,
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy