SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ मध्यमं नवतालम् ] अथ नवमोऽध्यायः । अथ मध्यमं नवतालम् । शीर्षाग्राद्यलिकान्तिमं त्रिभिरतो भास्वन्मितैरङ्गुलैरुन्मेयं चिबुकान्तिमं त्रिभिरतः कण्ठो हृदन्तं ततः । नाम्यन्तं च शिवान्तिमं च दिनकृत्सङ्ख्यैस्त्रिभिर्जीनुनी गुल्फाद्यङ्घ्रियुगं च सङ्कृतिमितैर्जङ्घाद्वयोरुद्वये ॥ १ ॥ सीमास्वासु सनालपद्ममकुटान्तासूरुजङ्घाइयी मध्याढ्यासु करोतु षोडश तिरश्रीनानि सूत्राण्यथ । मध्ये कर्णकरास्त्रसीमसु तथा सप्तोर्ध्वगान्यप्यतो वक्त्रं द्वादशवर्गकोष्ठसुविचित्रं कल्पयेत् सूत्रकैः ॥ २ ॥ अष्टाङ्गुलाततमतोऽर्धततं ललाटमर्धेन्दुसुन्दरमतोऽब्धिपदायता स्वात् । नासा पदद्वयतताङ्गुलिनिम्नमूला व्यासोच्छ्रिताग्ररुचिरा तिलपुष्पकल्पा ॥ ३ ॥ तन्मूलपार्श्वयुजि पञ्चमपङ्किसंस्थे कोष्ठयाततिमती पदविस्तृते च । मध्यत्रिभागकृततारकतविभाग ६५ क्लृप्तार्चिषी विरचयेन्नयनाम्बुजे द्वे ॥ ४ ॥ फालेक्षणान्तरगते द्विकलायते च चिल्ल्यौ कलाव्यवहिते द्वित्रप्रताने । नेत्र वीथिविसर तुटुकान्तरन्ध्रौ कर्णौ करार्णवपदप्रतताततौ च ॥ ५ ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy