SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ܕܕ शिल्परले ऊर्ध्वाधोबन्धयोर्मध्यं कर्णास्त्रयङ्गुलं भक्त् । उपर्येकाङ्गुलं यस्मात् कर्णावर्तस्य मण्डलम् ॥ ३५ ॥ कर्णावर्त बहिर्लेखा वृत्तायतस्वरूपिणी । षडगुलायता रम्या सा रेखा परिकीर्तिता ॥ ३६ ॥ अन्तःस्था तु भवेद् रेखा तदाकाराभिरुच्यते । रेखाद्वितीयमध्यस्य विस्तारः परिकथ्यते ॥ ३७ ॥ आदौ चतुर्यवः प्रोक्तो मध्ये च द्वियवो भवेत् । प्रान्ते तु यवमात्रं स्यात् क्रमेणैव निरूपितम् ॥ ३८ ॥ ऊर्ध्वाधोबन्धयोर्मध्यमङ्गुलत्रयभीरितम् । तन्मध्ये पिप्पलीमात्रं पिप्पलीफलसन्निभा ॥ ३९ ॥ तस्य मूले भवेद् रन्धं शब्दश्रवणकारणम् । चतुर्य प्रमाणं तत् पिप्पल्या विनिगूहितम् ॥ ४० ॥ अधस्तात् पिप्पलीभागाल्लुकाराख्या भवेद् बहिः । सा स्यादर्धाङ्गुलायामा यवत्रितयविस्तृता ॥ ४१ ॥ ऊर्ध्वाङ्गत्वात् स्पृशेद् रेखां कर्णाभ्यन्तरवर्तिनीम् । रेखायाश्व बिलं मध्यं पिञ्छषीति निगद्यते ॥ ४२ ॥ बिले बाह्यप्रदेशः स्यादुत्पात इति संज्ञया । अधोभागेन पिञ्छृण्या लकारो यत्र सङ्गतः ॥ ४३ ॥ | बहिस्तोन्नता श्या सा चूलीति निगद्यते । चतुर्यत्रायता ज्ञेया यवहितयविस्तृता: ४४ ॥ लकारमध्ये यद् दृश्यं श्रोत्रमध्यस्य पार्श्वगम् । यत्कर्णकुहरं प्रोक्तमर्धाङ्गुलमितं शुभम् ॥ ४५ ॥ १. 'वशत्वा' ख. पाठः. [उत्तरभागः
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy