SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ शिल्परले जङ्घामूलविशालं तु सार्धषण्मात्रमुच्यते । नलकायास्तु विस्तारं सार्धवेदाङ्गुलं भवेत् ॥ ३५ ॥ अ स्तलस्य विस्तारं चतुरङ्गुलमिष्यते। तलमध्यविशालं तु भूताङ्गुलमुदाहृतम् ॥ ३६ ।। पादाङ्गुष्ठसमायामं चतुर्मात्रमुदाहृतम् । अनामिकादीर्घमानं कुर्यात् त्रिंशद्यवैस्तथा ॥ ३७॥ मध्यागुलं च तत्तुल्यं वेदांशं तदनामिका । कनिष्ठिकाया दीर्घ तु सार्धवहयगुलं भवेत् ॥ ३८ ॥ सप्ताष्टनवधर्माख्यैर्यवैविश्वाभिधैः क्रमात् । कनिष्ठाद्यगुलीनां तु विस्तारं प्रविधीयते ॥ ३९ ॥ अग्रमूलसमं प्रोक्तं तत्तारं त्रिभिरंशयेत् । द्विभागं नखविस्तारमायाम तत्समं तथा ॥ ४०॥ आयामवर्तुलाकारमर्धचन्द्राकृतिर्भवेत् । तलाग्रेऽगुष्ठमूले तु द्विमानं तु धनं स्मृतम् ॥ ४१ ॥ कनिष्ठायां नवयवं तलस्य धनमुच्यते । कक्षयोरन्तरं पृष्ठे चतुर्विंशतिमात्रकम् ॥ ४२ ॥ अत्रानुक्तं तु यत् सर्वमुत्तमं दशतालवत् ॥ ४२३ ।। इति शिल्परत्ने उत्तरभागेऽधमदशतालं नाम सप्तमोऽध्यायः ॥ अष्टमोऽध्यायः । अथोत्तमं नवतालम् । उष्णीषं त्वेकभागेन केशान्तं तद्गुणागुलम् । केशान्तादक्षिसूत्रान्तं वेदमात्रमिति स्मृतम् ॥ १॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy