SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ मध्यमदशसालम् ] षष्ठोऽध्यायः । मध्ये तु पार्श्वयोः शेषं यथासौन्दर्यमाचरेत् ॥ ११४ ॥ ___इति शिल्परत्ने उत्तरभागे उत्तमदशताललक्षणं नाम पञ्चमोऽध्यायः ॥ अथ षष्ठोऽध्यायः । अथ मध्यमं दशतालम् । मध्यमं दशतालेन स्त्रीमानमिह वक्ष्यते । उष्णीषोदयमेकांशं केशान्तं तु गुणाङ्गुलम् ॥ १ ॥ केशान्तादक्षिसूत्रान्तं सत्रिपादयुगांशकम् । अक्षिसूत्रात् पुटान्तं तु सार्धवेदांशमिष्यते ॥ २ ॥ नासापुटात् तु हन्वन्तं सत्रिपादगुणांशकम् । तस्याधः कम्बुमानं तु चतुर्भागमुदाहृतम् ॥ ३ ॥ हिक्कादिहृदयान्तं च हृदयान्नाभिसीमकम् । नाभ्यादियोनिपर्यन्तं त्रयोदशांशकं पृथक् ॥ ४ ॥ ऊरुदीर्घ तु षड्विंशदंशं जानु युगांशकम् । ऊरुदीर्घसमं जङ्घा तलोच्चं तु युगांशकम् ॥ ५॥ विस्तारः शिवशैलकैर्मुखगलेऽत्यष्टया द्विकक्षान्तरे ___वक्षोजे नवभिः पृथक् च तदधो विश्वैः शिवैर्मध्यतः। कृत्या श्रोणितले कटौ रवियुगेनोर्वोः सजानुहये जङ्घायुङ्नलकेऽर्कशैलरसवेदैश्वाङ्गुलैः सम्मितैः॥६॥ उत्कृत्याधिभुजं प्रकोपरमनु द्वाभ्यां प्रकोष्ठे तले धृत्या सप्तभिराततियुगशराङ्गेष्वर्णवैरङ्गुलैः । अङ्गुष्ठादिषु तत्ततिर्नवनगाह्यद्यङ्गसङ्ख्यैर्यवैः स्त्रीष्वश्वैर्मणिबन्धकोपरभुजामृलेऽङ्गुलैर्विस्तृतिः॥ ७॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy