SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने [उत्तरभागः बालास्तु वेदतालेन कुर्याद् भूतगणांस्तु वा । त्रितालेन तु कर्तव्या यक्षकिन्नरजातयः ।। ४९ ॥ द्वितालेनैव कूश्माण्डांस्तालात् कूर्माकृतिहरिः। यथोक्तप्रतिमायामं मूर्तिभेदवशादिह ॥ ५० ॥ विभज्यार्काङ्गलं तालं गोलकं वा कलां तथा । विदितायङ्गुलं मानमङ्गुलाष्टांशकं यवम् ॥ ५१ ॥ प्रायः स्ववाञ्छितमिति द्विगुणायतेष्ट पादोनविस्तृततदर्धधनां शिलां ताम् । तुर्यश्रितां समतले निपुणां निधाय प्रस्तारमत्र तनुयादथ मन्त्रमूर्तेः ॥ ५२ ॥ इति शिल्परने उत्तरभागे प्रतिमोत्सेघविधिर्नाम चतुर्थोऽध्यायः॥ अथ पञ्चमोऽध्यायः। अथोत्तमं दशतालम् । त्रियवाधिकचन्द्रांशमुष्णीषोच्चमुदाहृतम् । तस्मादापूर्वकेशान्तं कारयेदग्निभागतः ॥ १ ॥ केशान्तादक्षिसूत्रान्तं युगांशं त्रियवाधिकम् । अक्षिसूत्रान्नासिकान्तं तस्माच्च हनुसीमकम् ॥ २ ॥ प्रत्येकं त्रियवाधिक्ययुगभागोदयं तथा । हन्वादिगलमानं तु चतुर्यवमुदाहृतम् ॥ ३ ॥ यवैकोनयुगांशं तु कण्ठोच्चं परिकीर्तितम् । कण्ठान्ततिर्थक्सूत्रं तु तालुसूत्रमुदाहृतम् ॥ ४ ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy