SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ २० शिल्परत्ने [उत्तरभागः तन्मस्तके नवविभागतया विभक्ते भागं विशोध्य परितः शिवभागदैर्घ्यम् । द्वात्रिंशदंशकतया परिकल्प्य भागा नेकैकशो द्विजमुखषु विशोधयेद् वा ॥११५॥ छत्राभं त्रपुषाकारं कुक्कुटाण्डनिभं तथा । अर्धेन्दुसदृशं चाथ बुहुदामं तु पञ्चमम् ।। ११६ ॥ सर्वेषामपि लिङ्गानां शिरसो वर्तनक्रमम् । लिङ्गव्यासात् षोडशांशमेकहित्रियवाधिकम् ॥११७ ॥ आरोप्य केऽधः संलम्ब्य लिङ्गस्योभयपार्श्वयोः। वर्तयेत् तत्र चत्वारि छत्राभाणि भवन्ति हि ॥ ११८ ।। प्रथमं च द्वितीयं च समलिङ्गे नियोजयेत् । शिवाधिके तृतीयं तु चतुर्थ वर्धमानके ॥ ११९ ॥ वर्तनं सङ्करं नैव कुर्यात् तदशुभं यतः। षडंशे लिङ्गविस्तारे सार्धद्वयंशेन वर्तयेत् ॥ १२० ॥ त्रपुषाभशिरःसिद्धयै रामांशैः कुक्कुटाण्डकम् । लिङ्गव्यासतृतीयांशवर्तनादर्धचन्द्रकम् ॥ १२१ ॥ लिङ्गव्यासेऽष्टधा भक्ते सार्धाशत्रयवर्तनात् । बुबुदाभस्य लिङ्गस्य शिरः सिध्यति शोभनम् ॥ लिङ्गानां शिरसीप्सितांशमुभयोः संलम्ब्य तत्पार्श्वयोः कृत्वा मत्स्ययुगं तदास्यजधनान्निष्क्रान्तसूत्रहये। तस्माद् यत्र च संयुतिर्मतिमता बिन्दुत्रयाढयं यथा तत्तद् वर्तयितव्यमत्र बहुधा सोपायमांशोदितम् ।।
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy