SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ૮ शिल्परत्ने पौष्करे कारणाख्ये च यथोक्तं तत्तु कथ्यते । चतुरंशादि विप्राणां पञ्चांशादि नृपोचितम् ॥ ९९ ॥ षड्भागादि विशां योग्यं सप्तांशाद्यं तु वार्षलम् । वर्धमानं चतुर्भेदमेवं वर्णक्रमादिदम् ॥ १०० ॥ आकृत्यंशे तु लिङ्गोचे सप्तसप्ताष्टभागकैः । ब्रह्माद्यंशेषु यल्लिङ्गं विप्राभीष्टं शिवाधिकम् ॥ १०१ ॥ एकोनविंश (ता? त्या ) भक्ते तुङ्गे षट्षट्तुरङ्गकैः । ब्रह्मादिभागतुङ्गं चेद् भौपमीशाधिके स्मृतम् ॥ १०२ ॥ त्रयोदशांशे लिङ्गोच्चे वेदवेदशरांशकैः । कादिभागं विशां योग्यं लिङ्गमुक्तं शिवाधिकम् ॥ १०३ ॥ लिङ्गतुङ्गे दशांशे तु गुणाग्निश्रुतिभागिकम् । ब्रह्मायंशेषु शूद्राणामिष्टं लिङ्गं शिवाधिकम् ॥ १०४ ॥ पूर्वोक्तसमलिङ्गे च धारालिङ्गं विकल्पितम् । चतुरश्रं द्विरष्टाश्रं तन्मूले परिकल्पयेत् ॥ १०५ ॥ वैष्णवांशे च शैवांशे धारा द्विद्विगुणीकृते । सर्वेषामपि लिङ्गानां धारालिङ्गं त्रिधा मतम् ॥ १०६ ॥ मूलेऽष्टाश्रं वा कलाश्रं युगाश्रं तस्मादूर्ध्वं तद्युगाः स्युश्च धाराः । [उत्तरभागः एवं पूर्वाचार्यकैरीश्वरस्य प्रोक्तं धारालिङ्गमेतत् त्रिधैव ॥ १०७ ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy