SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 'शिल्परले " [उत्तरभागे कृत्वा तद्वयमध्यसंस्थितचतुष्कोणानि संशोध्य सा ध्वष्टानं विदधीत वृत्तमपि तद् ड्यष्टाश्रकादिक्रमात् ।।७।। तुर्यश्रेऽष्टाश्रके वृत्ते ब्रह्मा विष्णुः शिवः क्रमात् । देवताः सर्वलिङ्गेषु त्रिखण्डेषु विशेषतः ॥ ७९ ॥ कांशः पादशिलायां स्याद् विष्ण्वंशः पीठिकासमम् । दृश्यः शिवांशः पूज्यः स्यात् सर्वलिङ्गेष्वयं विधिः ।।८०॥ सममाना भवेद् वेदी लिङ्गस्यावारिका यथा । पूजांश एव निर्दिष्टो लिङ्गशब्देन चात्र हि ।। ८१ ॥ घेदाश्रपीठिकायास्तु लिङ्गे सर्व समं त्विदम् । तल्लिङ्गपरिणाहस्थब्रह्मसूत्रचतुष्टये ॥ ८२ ॥ विस्तारः सम एव स्याच्छायादोषोऽन्यथा भवेत् । अ(थो ? तो) लिङ्गसमं पीठं स्याच्छायादोषवर्जितम् ।।८३॥ पीठेषु लिङ्गतुल्या स्यात् परिणाहं तु विस्तृतिः। . तथा तुङ्गेषु लिङ्गेषु पीठिकाधिकविस्तृतिः ।। ८४ ॥ अवगम्य शिवांशे तु वर्धयेत् तत्समं यथा । यावद् वृद्धं शिवांशे तु ब्रह्मांशे हापयेत् तु तत् ॥ ८५ ॥ तहत् स्थूलेषु लिङ्गेषु न्यूनतां पीठविस्तृतेः । विज्ञाय पूजाभागं तु कुर्याद्धस्वं तदंशतः॥ ८६ ॥ ब्रह्मांशे वर्धयेद् भागे वृद्धिहानी न वैष्णवे।... छायादोषो विचार्योऽयं लिङ्गे सर्वसमे स्मृतः ॥ ८७ ॥ १. वीथिका' ग. पाठः, २. 'द्वन्मूलेषु लि' ख. ग. पाठः ।
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy