SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २४६ शिल्परले [स्तरमागः अन्योन्यमैलने तक्ष्णस्तुल्या प्रायेण कल्पिता । अथ बिम्बादौ - यावदङ्गुलमुत्सेधं शिलादादिकल्पिते ॥ १६ ॥ बिम्बे तावत् पणः प्रोक्तस्तदर्ध वात्र चित्रके। हस्तायामवितानाढ्यफलकादौ विचक्षणैः ॥ १७ ॥ पणपञ्चकमाख्याता वेतना चित्रलेखने। अथ लोहानां - प्रायशः स्वर्णकारस्य वेतनार्कदशांशकम् ॥ १८ ॥ भूषादिकरणे किञ्चिन्न्यून वाप्यधिकं क्वचित् । द्राविते तापिते लोहकूटेनाभिहतेऽपि वा ॥ १९ ॥ पूर्वप्रमाण(मो ? तो) हानिन स्वर्णस्य मनागपि । दृश्यते रजते हानिर्देशांशादिक्रमेण तु ॥ २०॥ शुद्धताने न हानिः स्यात् सीसे नागेऽथ पैत्तले । कृष्णलोहे च पञ्चांशं कांस्ये हानिर्दशांशतः ॥२१॥ एतेषां कर्मकर्तृणां तत्तद्रव्यदशांशकः । प्रायेण वेतना प्रोक्ता षडंशं रजते स्मृतम् ॥ २२ ॥ लोहदारुदृषत्तन्तुमृत्तिकादिकृतामिह । कुटुम्बपोषणापूर्णा पूर्णा वा स्याद द्विवेतना ॥ २३ ॥ इति शिल्परत्ने उत्तरभागे वेतनाक्रमविधिर्नाम चतुरिंशोऽध्यायः !! - Jaste १. 'दो' क. पाठः. २. 'तद्दशां' ख. पाठः. ३. 'द्धि वे' क. पाठः,
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy