SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २४२ शिल्परत्ने [उत्तरभागः करोति भ्रमणं तस्मात् तन्मध्यन्यस्तमैक्षवम् । खण्डं संपीड्य निस्सारं पतत्यन्यत्र तत्क्षणात् ॥ १३७ ॥ - अथ नाडीयन्त्रं शुद्धताम्रादिक्लृप्तं यत् कपालं वर्तुलाकृति । सर्वतस्तुल्यघनमप्यत्यन्तं लघु तस्य तु ॥ १३८ ॥ मध्ये सूच्यवेधेन कृत्वा सुषिरमल्पकम् | कारयेद् घटिकायन्त्रं कालज्ञानाय सर्वतः ॥ १३९॥ गालितं जलमादाय महद् भाण्डं प्रपूरयेत् | घटिकायन्त्रमादाय तज्जलोपरि विन्यसेत् ॥ १४० ॥ सुषिरेणागतजलैस्तत्पूरणनिमज्जनात् । कालो विज्ञायते सम्यक् तत्परीक्षणमुच्यते ॥ १४१ ॥ खमध्यगेऽश्विनीपूर्व तारेष्वन्यतमे बुधः । न्यस्य यन्त्रं यथान्यायं विनिद्रः प्रतिपालयेत् ॥ १४२ ॥ यावत् परेऽह्नि तत्तारं खमध्यमधिगच्छति । तत्र यन्त्रस्य संजातं षष्ट्यावृत्तिनिमज्जनम् ॥ १४३ ॥ तर्हि सूक्ष्मं भवेद् यन्त्रं नो चेत् सूक्ष्मत्वमाचरेत् । अथवा सुषिरीभूतं काचपात्रद्वयं मिथः || १४४ ॥ सुसूक्ष्मवालुकापूर्ण सम्यक् संयोज्य तेन वा । नाडीपरीक्षणं युक्त्या कार्यं तत्सिकतास्रवात् ॥ १४५ ॥ ऊर्ध्वपात्रस्थसिकतं निरवशेषमधेः स्थिते । पात्रे पतनकालं यत् तन्नाडीति निगद्यते ॥ १४६ ॥ १. 'व' क. पाठः. २. 'ते अथ स्वर्ण' ख. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy