SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ त्रयस्त्रिंशोऽध्यायः । पिनद्धश्चर्मणा बाह्ये प्लवकोऽयं जलेचरः । एकवृक्षभवा वा स्यान्नानाकारसमन्विता ॥ ६९ ॥ नौका *नीचिका धान्या ( ? ) महती सागरोचिता । मानाप्रमाणफलका बहुबद्धा यथादृढम् ॥ ७० ॥ सर्वेषामायतत्र्यंशादधिकं नैव विस्तृतिः । उत्सेधं च तथायामसमं वा पटपादके ॥ ७१ ॥ नौतारत्रिगुणं प्रोक्तं सर्वत्र पटविस्तृतम् । एकत्रिपञ्चसप्त स्युः पटपादा यथोचितम् ॥ ७२ ॥ कर्णधारादिसंयुक्तं कार्यं नौवाहनं स्मृतम् । उत्तमं ध्वजजं यानं मध्ये सिंहगजान्विते ॥ ७३ ॥ वृषयोनिसमायाममधमं वाहनं स्मृतम् । सध्या ] अथ शयनसाधनम् - - (निषिद्ध ? ) हंसपिच्छमयी काचिच्छाल्मलेस्तूलजा परा ॥ कार्पासरचिता चान्या केसरैरितरा कृता । एता वस्त्रदुकूलादिकल्पिताः सुविचित्रिताः ॥ ७५ ॥ पल्लवैः कल्पिता काचित् काचित् कुसुमनिर्मिता । शीताम्भः पूरिता छागचर्मणा रचिता परा ॥ ७६ ॥ ताः सर्वाः स्वायसंपन्ना दशतालायतान्विताः । नवतालान्विताः कार्या अष्टतालान्विताश्च वा ॥ ७७ ॥ स्वायामार्धत्रिपादादिविस्तीर्णाः प्रायशः स्विताम् (?) । अथ खट्वा - २३५ दन्ताङ्घ्रिर्लोहचरणः साष्टापदपदस्तथा ॥ ७८ ॥ * 'नत्रीचिता धन्या' इत्येवञ्जातीयः पाठः स्यात्
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy