SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१२ शिल्परले पूर्वापरगतं सूत्रं ब्रह्मसूत्रमिति स्मृतम् । याम्योत्सरगतं मध्ये यमसूत्रं विदुर्बुधाः ॥ २० ॥ निर्ऋतीशगतं कर्णसूत्रं वाय्वग्निगं मृतिः ॥ २१॥ नन्दद्वन्द्वपुटे नवावृतितया बाह्यादिमध्यान्तिमा वीथ्यः स्युः परितः पिशाचदिविषद्वित्ताधिभूदण्डिनाम्। नागाम्ब्वमिविनायकद्रुहिणनाम्नां चासु निन्द्याः स्मृताः पैशाचाग्न्यहिदण्डिनां गृहविधौ बीथ्यश्चतुर्दिक्ष्वपि । कन्यायां पन्नगः शेते प्राकाछरा याम्यपुच्छकः । चापे याम्यशिराः प्रत्यक्पुच्छो मीने पराक्छिराः ॥ २३ ॥ उदक्पुग्छोऽथ मिथुने सौम्यकेशः स्थिते रवौ । प्राचीपुच्छो लुठत्येवं मासैादशभिः क्रमात् ॥ २४ ॥ स्तम्भा नहि विधातव्यास्तदङ्गेषु नृमन्दिरे । सस्मात् कालस्य नियमो मार्ताण्डचरणेन च ॥ २५ ॥ तुलावृश्चिकयोः सिंहं पश्चिमं मृगकुम्भयोः। गजं तु मेषवृषयोर्मासयोरालयं नृणाम् ॥ २६ ॥ सिंहे ध्वजालयं कुर्यात् कर्कटोऽत्र निषिध्यति । अथवा मृगकुम्भाख्यौ मासौ पूर्वालये शुभौ ॥ २७ ॥ दक्षिणे मेषवृषभौ सिंहः पश्चिमधामनि । तुलावृश्चिकमासौ बावुत्तरालयकर्मणि ॥ २८ ॥ एकं स्याद् यदि दक्षिणं गृहमुझे चेत् तच्च पाश्चात्यकं ते सौम्य च गृहत्रिके गृहचतुष्के प्राच्यमेतानि च । प्राच्यां केतुजमेणराजजमिदं चापद्यवाच्यामथो. दीच्यां ते गजजं च तानि वृषजं चाहुः प्रतीच्यां गृहम् [॥ २९॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy