SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०६ शिल्परत्ने विनष्टवस्तुनो गर्भं त्यक्त्वा गर्भं न्यसेत् पुनः । अधिष्ठानादिकं प्राग्वत् कुर्यात् स्तम्भादिकानपि ॥ २३ ॥ यदि तत्प्राक्तनद्रव्यैर्निष्पाद्यं चेद् गृहादिकम् | प्रारभ्यादौ नवद्रव्यैः पुराणैर्योजयेत् ततः ॥ २४ ॥ योगं नवर्नवैरिष्टं पुराणानां पुरातनैः । मिश्रयोगे विनाशः स्यादतो मिश्रं न कारयेत् ॥ २५ ॥ पुरग्रामालयादीनि पूर्वत्रस्त्वनुरूपतः । तद्बाधकं ++++ कुलनाशकरं त्यजेत् || २६ ॥ [उत्तरभार्गः अन्तहाराबहिर्मूलादल्पलिङ्गालयादिकम् । कुर्वीत वान्तः सालस्य यथा मूलं न पीडयेत् || २७ || मूलालयसमं क्षुद्रमधिकं तन्न शस्यते । ran च पादोनं शरांशे त्र्यंशमेव वा ॥ २८ ॥ शिखिविशिखसुषिरभक्ते मूलगृहे मूलबिम्बे च । नेत्राग्निभूतभागेर्बालगृहं बालबिम्बं च ॥ २९ ॥ दोषे लघुतरे बिम्बं नैव त्याज्यं कदाचन । बाहुच्छेदे करच्छेदे पादच्छेदे तथैव च ॥ ३० ॥ तथैव स्फुटिते भिन्ने यस्मिन्नवयवे गते । वैरूप्यं जायते यस्य तत् त्याज्यं प्रायशो भवेत् ॥ ३१ ॥ अङ्गुल्यादिपरिच्छेदे बन्धनं शस्यते बुधैः । महादोषसमायुक्ते सान्निध्यं लक्ष्यते यदि ॥ ३२ ॥ तथैव बद्ध्वा संशोध्य प्रायश्चित्तं समाचरेत् ॥ ३३ ॥ १. 'शं' क. ग. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy