SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ -MMEN १८८ शिल्परले [उत्तरभागः गजोष्ठसदृशं वाथाप्युन्नताग्रं मनाक् शुभम् । नालतारत्रिभागैकं खातं व्यासांशतः समम् ॥ ५३॥ पीठमध्ये तु कौबेर्या नालमित्थं प्रकल्पयेत् । स्यादूर्ध्वपट्टबहलं समं पादाधिकं तु वा ॥ ५४ ॥ अध्यर्ध वाज्यभृद्व्यासो मूल(धा ? खातं च तत्समम् । आलिङ्गमूलपर्यन्तं तत् क्रमेणोन्नतं भवेत् ॥ ५५ ॥ पीठोपलं. त्वेकभागं ह्येकमेवोलमण्डनम् । अधोमण्डनमेकं वा स्यान्नैकं चोपपत्तितः ॥ ५६ ॥ तत्र मध्यं (ज ? वि)ना कोणं सन्धयेत् सुन्दरं यथा । उपर्यङ्गावसानं तंदुसन्धानमाचरेत् ॥ ५७ ॥ शिवभागस्त्वधःपीठान्न किश्चिदवलम्बनम् । उन्नतोऽपिच दोषाय तस्मात् तौ परिवर्जयेत् ॥ ५८ ।। निस्सन्धिकं भवेत् पीठं प्रशस्तं शिलयैकया । तदलाभेऽप्येकयैव प्रकुर्यादूर्ध्वमण्डनम् ॥ ५९ ॥ क्षुद्रे महति मध्ये च स्यादधः सन्धिमण्डनम् । उपर्युपरि पीठानां सन्धिरङ्गावसानके ॥ ६ ॥ नालमध्ये तथा मध्ये कर्णे सन्धिर्न शस्यते । युञ्जीयाद् दक्षिणे वामे दीर्घादीर्घ यथाक्रमम् ॥ ११ ॥ त्रिखण्डं नैकखण्डं वा युक्त्या कुर्यादधोगतम् । अथ पादशिला बिम्बे नपुंसकशिलां निजनालमूल विस्तारतोऽधिचरणांशदलांशतानाम् । - - -
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy