SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ क्षेत्रपालः ] अथ सप्तर्षयः ऋषयः पीतवर्णास्तु नानावर्णाम्बरान्विताः ॥ ९७ ॥ वृद्धाश्व द्विभुजाः शान्ता जटामकुटमण्डिताः । बिन्दुकाहृदयान्ताश्च यज्ञसूत्रसमन्विताः ॥ ९८ ॥ भस्मनैव त्रिपुण्ड्राढयोः स्थानका वासनास्तु वा । दण्डं दक्षिणहस्ते तुच्छत्रं वामकरे धृताः ॥ ९९ ॥ छत्रदण्डौ विना वाथ सव्ये वै ज्ञानमुद्रिकाम् । वामजानूपरिन्यस्तवामहस्तसमन्विताः ॥ १०० ॥ एकादशरुद्राः V पञ्चविंशोऽध्यायः । चतुर्भुजास्त्रिनेत्राश्च जटामकुटमण्डिताः । शुक्लवस्त्रधराः सर्वे शुक्लवर्णाः प्रकीर्तिताः ॥ १०१ ॥ अभयं परशुः सव्ये कृष्णश्च वरदोऽन्यतः । अथ क्षेत्रपालः wwwdrog १६७ त्रिविधः क्षेत्रपालस्तु सात्त्विको राजसोऽन्तिमः ॥ १०२ ॥ श्वेतो रक्तस्तथा कृष्णः सात्त्विकादिगुणाद् भवेत् । शूलं दक्षिणहस्ते तु कपालमितरे स्मृतम् ॥ १०३ ॥ द्विभुजं ह्येवमाख्यातं चतुर्हस्तमथोच्यते । वरंहस्ते तु सव्ये तु वामे डमरुकं न्यसेत् ॥ १०४ ॥ अथवा पूर्वहस्तौ द्वौ वरदाभयसंयुतौ । पूर्ववत् परहस्तौ द्वौ घण्टा वा वामहस्तके ॥ १०५ ॥ सात्त्विकं ह्येवमाख्यातमथ राजसमुच्यते । शूलं खङ्गं च घण्टा च दक्षिणे तु करत्रये ॥ १०६ ॥ १. 'वं', २. 'ख्या' घ. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy