SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सोमः] पञ्चविंशोऽध्यायः । यमः सिंहासनारूढो महिषारोहितस्तु वा । अथ निर्ऋतिः-- नितिस्तु महावीरो द्विभुजो रक्षसां पतिः ॥ २८॥ खड्गं दक्षिणहस्ते तु वामहस्ते तु खेटकम् । प्रीतिहस्तधरो रौद्रः करालवदनान्वितः ॥ २९॥ सर्वाभरणसंयुक्तो नानापुष्पैरलकृतः । अथ वरुणः वरुणः शुक्लवर्णस्तु द्विभुजः पाशहस्तकः ॥ ३० ॥ सर्वाभरणसंयुक्तः करण्डमकुटान्वितः । पीतवस्त्रधरः शान्तो महाबलसमन्वितः ॥ ३१ ॥ यज्ञसूत्रसमायुक्तो मकरस्थासनासनः। अथ वायुःकुञ्चितभूयुतो वायुः शबलाम्बरभूषितः ॥ ३२ ।। नानाभरणसंयुक्तः केशाठ्यः सुविकीर्णकः । सिंहासनोपरिष्टात् तु शीघ्रयात्रोत्सुकः स्थितः ॥ ३३ ॥ अथ *धनदः अथ सोमः-- प्रालेयामलमात्मदीधितिसुधासक्रान्तलोकत्रयं मुक्ताजालविराजिरूप्यविलसद्वेषान्तरालङ्कृतम् । भास्वत्कैरवचारुबाहुममलक्षौमावदातं परं वन्दे सोममरा(जल)नीलविलसत्केशं मनोनन्दनम् [॥ ३४ ॥ १. 'तः । अथ' ख. ग. पाठः. २. 'तः । सो' घ. पाठः. * अस्य ध्यानश्लोको मातृकासु न दृश्यते।
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy