SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ शक्तौ श्रीचक्रप्रस्तारः ] चतुर्विंशोऽध्यायः । अङ्कुशं पाशखट्वाङ्गे + + + दधतीं भुजैः । ध्यायेत् सिन्दूरसङ्काशां कौमारी शक्तिमालिकाम् ॥ ७८ ॥ चक्रशङ्खर्पताकाख्यशृङ्खलां च चतुर्भुजाम् | कलायश्यामलां ध्यायेद् वैष्णवीं पीतवाससम् ॥ ७९ ॥ मुसलासिलसडण्टाहलोद्यत्करपङ्कजाम् । + + + + + संयुक्तां वाराहीं नीरदप्रभाम् ॥ ८० ॥ अङ्कुशं तोमरं वज्रं चक्रं च दधतीं शुभाम् । इन्द्रोपलाभामिन्द्राणी स्मरेदुज्ज्वलभूषणाम् ॥ ८१ ॥ शूलासिनृशिरोराजत्कपालविलसद्भुजाम् । मुण्डमण्डितां चण्डीं चामुण्डामपि चिन्तयेत् ॥ ८२ ॥ मृगटङ्कवराभीतिकरो वीरस्त्रिलोचनः । नागोपवीताभरणः श्वेतचर्माम्बरो भवेत् ॥ ८३ ॥ गजास्यमेकदन्तं च त्रिणेत्रं नागभूषणम् । कनकाभं करासक्तपाशाङ्कुशवरं तथा ॥ ८४ ॥ भक्ष्यं च विभ्रतं देवं ह्रस्वपादकरद्वयम् । शुण्डाग्रग्रस्तचषकं महाकायं विचिन्तयेत् ॥ ८५ ॥ अथ प्रसङ्गाच्छ्री चक्रप्रस्तारो लिख्यते । चक्रार्थमच्छमसृणां चतुरश्रक्लृप्ता-. मुर्वी षडुत्तरनवत्यभिधाङ्गुलाढ्याम् । कृत्वाथ सूत्रयुगलं प्रतिपादयेत् त मध्येऽथ पूर्वपरदक्षिणसौम्यगाग्रम् ॥ ८६ ॥ २. 'कपालाख्य', FF. 'पाशांश्च द' क. ख. ग. पाठः. ४. ‘'सु' ख. ग. पाठः १. 'भुजाम्' ष. पाठः. १४७
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy