SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ शैवे गजहा ।] द्वाविंशोऽध्यायः । हिरण्यकर केणापः पूर्वहस्तद्वयेन तु । संगृह्य वरदे हस्ते दद्यादुदकपूर्वकम् ॥ १०० ॥ अष्टलोकेशविद्येशाः सिद्धयक्षगणादयः । ऋषयश्चैव गन्धर्वा मातरश्चान्यदेवताः ॥ १०१ ॥ तत्तच्छक्तिसमोपेता हृदयाञ्जलिसंयुताः । संभ्रान्तमनसापेताः संवीक्ष्य परितः स्थिताः ॥ १०२ ॥ अर्धनारीश्वरं वक्ष्ये सुस्थितं दक्षिणाङ्घ्रिकम् । कुञ्चितं वामपादं तु सर्वाभरणभूषितम् ॥ १०३ ॥ वामा पार्वतीरूपं दक्षिणार्धं महेश्वरम् | अभयं परशुं दक्षहस्ते वामगतं भुजम् ॥ १०४ ॥ वृषस्य मूर्ध्नि विन्यस्तकोर्परं चारु सुन्दरम् | पुष्पधृक्कटकं त्वन्यं चतुर्भुजमिदं स्मृतम् ॥ १०५ ॥ गजहा मूर्तिनं वक्ष्ये सर्वाभरणभूषितम् । पाशं च गजचर्मे च दक्षपार्श्वकरइये ॥ १०६॥ गजस्य शृङ्गं चर्मं च वामपार्श्वे करद्वये । शूलं डमरुकं पाशं गजचर्मं च दक्षिणे ॥ १०७ ॥ गजशृङ्गं कपालं च पाशं चर्मे च वामतः । शम्भोर्वामाङ्घ्रयधस्तात्तु गजमस्तकमेव हि ॥ १०८ ॥ मकुटस्योपरिष्टात्तु गजपुच्छं प्रकल्पयेत् । पार्श्वयोर्गळपादं तु यथायुक्तया तु कारयेत् ॥ १०९ ॥ प्रभामण्डलवच्छेषं गजचर्म प्रकल्पयेत् । व्याघ्रचर्माम्बरोपेतं दुकूलवसनान्वितम् ॥ ११० ॥ १११
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy