SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ शैवे त्रिपुरान्तकः । द्वाविंशोऽध्यायः । शेषं प्रथमतुल्यं हि तृतीयमथ वक्ष्यते। सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥ ७८ ॥ शेषं प्रागिव कर्तव्यं चतुर्थं तु ततः परम् । तदेव वामपादं तदपस्मारोपरि स्थितम् ॥ ७९ ॥ तदेव पूर्वहस्तौ द्वौ कटकौ हृदि सीमगौ। वामं दक्षिणकं हस्त क्रमादूर्ध्वमधोमुखम् !! ८० ॥ बाणमूलधृतं सव्यमन्यं बाणाननादृतम् । परे दक्षिणके टकं धनुषं वामहस्तके ।। ८१ ॥ तद्धस्ते तु मृगं वाथ वामे गौरीसमायुतम् । अपस्मारं विना कार्य पञ्चमं समुदाहृतम् ॥ ८२ ॥ षष्ठमिष्टं च बाणं च पाशं खड्गं च दक्षिणे । धनुषं विस्मयं खेटं कुक्कुटं वामहस्तके ॥ ८३ ॥ यथाशोभं तथा कुर्याद् वामे गौरीसमायुतम् । सप्तमे दक्षिणे बाणं चक्रं शूलं ततः परम् ॥ ८४ ॥ टकं वज्रं तथा वामे धनुषं सूचिविस्मये । + + + + + खेटानि सर्व पूर्ववदाचरेत् ॥ ८५ ।। एवमेवाष्टमं कुर्याद् वसुधोपरि विन्यसेत् । दक्षिणा स्तथा जानु वामपादतलं पुनः ॥ ८६ ।। पुरःस्थितरथरयोचे विन्यसेत्तु यथोचितम् । रथं तु मुकुलोपेतं मुकुलं कज्जनावृतम् (?) ।। ८७ ॥ मुकुलाभ्यन्तरे ब्रह्मा चतुर्वक्रश्चतुर्भुजः । तस्य दक्षिणहस्तौ द्वौ वेणुदण्डं कमण्डलुम् ॥ ८८ ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy