________________
अथैकविंशोऽध्यायः।
अथ वाहलक्षणम् तत्र पूर्व वृषलक्षणम् । तुङ्गे पञ्चदशांशे तु एकांशं त्वङ्गुलं भवेत् । चत्वारिंशाङ्गुलायाम मुखात् पृष्ठावसानकम् ॥ १ ॥ मूर्तेस्त्वध उपर्यन्तं धर्ममात्रमुदाहृतम् । तस्माद् ग्रीवोच्चमष्टांशमुरोन्तं षोडशाङ्गुलम् ॥ २॥ ऊरुदीर्घं तु षण्मात्रं जानुमानं द्विमात्रकम् । जङ्घामानं षडंशं स्यात् खुरमानं द्विमात्रकम् ॥ ३ ॥ शृङ्गान्तरं तु वस्वंशं शृङ्गोचं चतुरङ्गुलम् । शृङ्गमूलविशालं तु चतुरङ्गुलमेव च ॥ ४ ॥ तदग्रव्यासमर्धाशं मूलादग्रं क्रमात् कृशम् | किञ्चिद् वक्रसमायुक्तौ शृङ्गावभ्यन्तरे क्रमात् ॥ ५ ॥ ललाटतारं नन्दांशं मुखव्यासं शरांशकम् । घनं तु तत्समं ख्यातं नेत्रायं यमुलं भवेत् ॥६॥ अध्यर्धाङ्गुलमुत्सेधं शफराकृति कारयेत् । नेत्रमध्यान्मुखायाममष्टाङ्गुलमुदाहृतम् ॥ ७ ॥ तस्माद् वै पृष्ठग्रीवान्तं षण्मानं परिकीर्तितम् । नेत्रमध्याल्ललाटोचं वेदमात्रमुदाहृतम् ॥ ८ ॥ नेत्रात् कर्णान्तरं तद्वत् कर्णायामं शरांशकम् । कर्णमूलविशालं तु द्विमात्रमिति कथ्यते ॥ ९ ॥ मध्यव्यासं चतुर्मात्रमग्रमङ्गुलविस्तृतम् । घनमर्धाङ्गुलं ख्यातं गण्डं तत्सममुच्यते ॥ १० ॥