SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मृल्लेपनम् । एकोनविंशोऽध्यायः । कृष्णवालुकसंयुक्तमक्लेशात् खननक्षमम् । (हस्तेमरोरमाहस्तं दृढक्रियतदनूपकम् ?)॥ २ ॥ तयोर्मिश्रमिवाकारं मिश्रभूस्तदुदाहृतम् । तेष्वशोष्यजलोपेते शुद्धे देशे मनोरमे ॥३॥ नदीदीर्घतटाकादौ जातं पङ्कं समाहरेत् । श्वेतवर्णं तु वा रक्तवर्ण हारिद्रमेव वा ॥ ४ ॥ विप्रादिवर्णभेदेन कृष्णवर्णमथापि वा । संगृह्यालोड्य पात्रेषु स्रावयेन्नववाससा ॥५॥ तत् स्रावं तोयनिर्मुक्तं पात्रस्थं धर्मशोषितम् । लाक्षाक्षीरत्वचोद्भूतकाथतोयेषु मर्दयेत् ॥ ६ ॥ शोषयित्वा पुनः क्वाथैः खदिरार्जुनसम्भवैः । सम्मर्य शोषयेद् यावत् तत् पकं पिण्डतां ययौ ॥ ७ ॥ पुनः फलत्रयक्वाथमर्दितं शोषयेद् बुधः। ईषद् द्रवसमायुक्तं पिण्डं कृत्वा तु तन्मृदम् ॥ ८ ॥ पिण्डे हस्ततले रेखा दृश्येत् पिण्डं तदा कुरु । मृदं वेदकृतैकांशं योजयेत्तु मृदा सह ॥ ९॥ त्रिफलाम्भसा तु संमर्थ सप्ताष्टदशरात्रकम् । यवगोधूममाषांश्चाप्यतसीपत्रकं तथा ॥ १० ॥ यथा समांशं संयोज्यं चूर्णितं सुतरां पुनः । मृदष्टांशं समायोज्य नालिकेरफलोदकैः ॥ ११ ॥ * इत उपरि ग-चिह्निते तालपत्रकोशे एकादशपत्राणि लमानि ।
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy