________________
नेप्यापि चे शूललक्षणम्] सप्तदोऽध्यायः ।
ऊरुमध्ये विभागैकमूरशूलस्य विस्तृतम् । तस्यानं तधिमागं स्याज्जाङ्घमूलस्य तत्समम् ॥ २०॥ जङ्घामूलत्रिभागैकहीनं जङ्घाप्रविस्तृतम् । जान्वग्रे योजयेज्जङ्घामथवा स्थानके पुनः ॥ २१ ॥ सन्धि विनाधिशूलं तु एक एव विधीयते । जनादार्थोपरिष्टास्तु तलशूलं तु रो(च? पयेत्॥२२॥ त्रिधा पादतलायामं कृत्वा भागद्वयायसम् । तलाप्रविस्तृतस्यापि त्रिग्रंशं विस्तृतं तथा ॥ २३ ॥ व्यासार्ध वाथ विस्तारं तन्मूलाद् व्यङ्गुले पुनः । कर्तव्यं सुषिरं तस्मिनङ्खाग्रगशिखां न्यसेत् ॥ २४ ॥ बाहुथूलविशालं तु गुणाङ्गुलमुदाहृतम्। अग्रं तयङ्गुलं व्यासं प्रकोष्ठं चैव तत्समम् ॥ २५ ॥ मूलतारार्धमग्रस्य व्यासं कुर्यात् प्रकोष्ठयोः । बाहुप्रकोष्ठयोर्मध्ये कोपरं जानुवद् भवेत् ॥२६॥ घङ्गुलं तु शिखामानं योजयेत्तु दृढं यथा । पार्श्वयोवंशदण्डस्य पार्श्वदण्डं तु योजयेत् ॥ २७ ॥ कटिपेक्षान्तरं दीर्घ तद्व्यासं तु गुणाकुलम् । वंशदण्डसमं तीव्रमूर्ध्वाधस्ताच्छिखान्वितम् ॥ २८ ॥ गुणाकुलान्तरे वंशपुच्छयोर्योजयेद् दृढम् । हस्तपादतलं श्रोत्रं ताम्रपट्टेन योजयेत् ॥ २९ ॥ भार्जवे त्वार्जवं शूलं वक्रबिम्बे तु कुञ्चितम् । देवानां शूलमेवं स्याद् देवीनां तु भिदा वियम् ॥ ३०॥ १. 'क' ख. पाठः.