SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ शिलालक्षणम् ] चतुर्दशोऽध्यायः । चतुरश्रा च दीर्घाश्रा स्त्रीशिला पीठिकोचिता । त्र्यश्रा तदायता षण्डा ज्ञेया पादशिलोचिता ॥ १७ ॥ नन्द्यावर्तवसुन्धराधरह्यश्रीवत्सकूर्मोपमाः ५९ शङ्खस्वस्तिक हस्तिगोवृषनिभाः शक्रेन्दु सूर्योपमाः । छत्रस्रग्ध्वजलिङ्गतोरणमृगप्रासादपद्मोपमा वज्राभा गरुडोपमाश्र शुभदा रेखाः कपर्दोपमाः ॥ १८ ॥ विप्रादीनां वर्णभेदाश्च रेखा श्वेता रक्ता पीतकृष्णे प्रशस्ताः । रेखा यस्यां देवराजायुधाभा ग्राह्या सा स्यात् सर्ववर्णैः शिला स्यात् ॥ १९ ॥ अश्व बीजं पवनस्य बीजं भूयः स्वराण्यत्र नपुंसकानि । एताः प्रशस्ताः शुभदाः समस्ता रेखास्तु लिङ्गेक्षतुल्यताया (?) : एवं परीक्ष्य च शिलां समवेक्ष्य शस्तां प्रक्षाल्य तोयैर्बहुशः प्रयत्नात् । गर्भाणि लेप्यविधिनापि च मण्डलानि तज्ज्ञो गुरुर्ज्ञातुमथार्हताह ॥ २१ ॥ तुल्यांशः क्षीरपिष्टैस्तु विषकासीसगैरिकैः । दृषदालिप्य निःशेषमेकरात्रोषितं ततः ॥ २२ ॥ प्रक्षाल्य गर्भान् दोषांच मण्डलैस्तत्र रक्षयेत् । मञ्जिष्ठाभे मण्डले दुर्दुरः स्यात् पीते गोधा कापिले मूषिकाश्र | कृष्णे सर्पः पाण्डरे चेति केचित् ardhara गौलिक वृश्चिको वा || २३ ||
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy