SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ वास्तुमर्मविधानम् ] त्रयोदशोऽध्यायः । दोषवर्जितम् ॥ ९३ ॥ मध्यस्थितं मर्मरज्जुभ्यां + स्थानान्येतानि वास्तोर्गृहकरणविधौ पीडयेन्नैव विद्वान् पीडा स्यात् पीडितेषु क्षितिपतिविषयब्राह्मणानां पशूनाम् ! तत्कर्तुः शिल्पिनां वा सतनयवनिताभ्रातृसंबन्धिनां च स्वस्थाः स्युस्तेन विद्धे पृथगथ विहितान् वच्मि दोषान् विभज्य ।। मूर्ध्नि वक्त्रे च कर्णे च हृदये मरणं भवेत् । विद्धे चोरसि हृद्रोगं पादयोः कलहस्तथा ॥ ११३ ॥ ललाटे भ्रातृहानिः स्याद् वित्तहाङ्गुलिपृष्ठयोः । ऊर्वोर्मृत्युस्तु बन्धूनां पत्नीनाशस्तु वा भवेत् ॥ १२३ ॥ गुह्ये तु सुतहानिः स्यादष्ट के गर्भविच्युतिः । षट्के च वृद्धिः शत्रूणां चतुष्के च गजक्षयः ॥ १३३ ॥ पचके व्याधिरुद्दिष्टस्तरकरेभ्यस्त्रि के भयम् । 0 ५५ वर्जयेत् कुड्यमध्ये च स्तम्भमध्यादिषु त्विदम् ॥ १४३ ॥ उक्तानुक्तं च यत्किञ्चित् प्रमादाद् यदि संभवेत् । एतानि दोषशान्त्यर्थं निधनेद्वास्तुकर्मणि ॥ १५३ ॥ सिंहमातङ्गमहिषकिटिकूर्मशिरांसि च । शुद्धहाटकक्लप्तानि कर्तुः सौख्यविवृद्धये ॥ १६३ ॥ प्रकारान्तरं - वक्ष्ये चतुष्षष्टिपदेषु मर्म कोणस्थसूत्रे विलिखेत् सिराख्ये । पूर्वाग्र सौम्याग्रगताच वंशाः सिराख्ययोः पार्श्वगतानुवंशाः ॥ माहेन्द्र धर्मेशदप्रविष्टा गृहक्षतान्धीशपदस्थिताश्च । पुष्पादिदन्तेन्दुपदस्थिताश्च फल्लाटमित्राभिधकोष्ठसंस्थाः ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy