SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ गर्भन्यासः द्वादशोऽध्यायः । पादावशिष्टे खाते वा विन्यसेत प्रथमेष्टकाम् । तुलाभाराभिषेकादिमण्डपे वा तथा पुनः ॥ ८ ॥ पाषण्डाश्रमिणां वासे तथैव च महानसे । जात्यन्तराणां सर्वेषां वासे नाट्यसभासु च ॥ ९ ॥ प्रासादे मण्डपे साले गोपुरे च तथैव च । सदने परिवाराणां विन्यसेत् प्रथमेष्टकाम् ॥ १० ॥ स्वस्थाने गर्भविन्यासं तत्तच्चिलेन कारयेत् ।। १०३ ॥ नागैर्भितिततिं विभज्य चतुरो बाह्ये विधायांशकानन्तस्त्रीनखिलेषु गोभिरजिते षड् द्वा(?)च पाण्मातुः । भूतैस्त्रीनपि चैक वितनुयाद् गर्भ परांशे स्थितं विप्रस्योपरि पादुकस्य भुवि राज्ञोऽधःक्रमादन्ययोः ॥ ११ ॥ यद्यत्स्थाने तु गर्भः स्यात् तत्रस्थाः प्रथमेष्टकाः । मर्मादीनि परित्यज्य वास्त्वङ्गे स्थापयेदिमाः ।। १२३ ।। वास्तुमर्मसु निक्षिप्ता यदि स्युः प्रथमेष्टकाः । स्थाननाशो भवेत् कर्तुर्दुःखं मरणमेव वा ॥ १३ ॥ सुमुहूर्ते सुंनक्षत्रे विन्यसेत् प्रथमेष्टकाम् । शैले देवादिनिलये शैल्यः स्युः प्रथमेष्टकाः ॥ १४ ॥ इष्टकाभिस्तु कर्तव्या इष्टका इष्टकालये। संमिश्रे तु शिलाभिस्तु तरुभिस्तरुमन्दिरे ॥ १५ ॥ मार्तिक्यो वाथ सर्वेषां विमानानां शुभावहाः । पुंसां पुमिष्टकाः शस्ताः स्त्री स्त्रीणामिति केचन ॥१६॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy