SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ शिल्परले [पूर्वभागः मुख्ये यदि कृते द्वारे ब्रह्मण्यो भवति क्षणात् । फल्लाटे च कृते द्वारे वैशिष्ट्यं लभते नरः ॥ ११ ॥ निशाकरे कृते द्वारे यज्ञशीलो भविष्यति । अर्गले च कृते द्वारे जले (र्णन) मरणं भवतें । १२ ।। अदितौ निर्मिते द्वारे कुक्षिरोगं विनिर्दिशेत् । उदितौ स्थापिते द्वारे वनिताकूपनाशनम् ॥ १३ ॥ रुद्रे यदि कृते द्वारे वह्निना दह्यते गृहम् । पर्जन्ये चेन्धनं नश्येत् जयन्ते जयमाप्नुयात् ॥ १४ ॥ माहात्म्यं चैव माहेन्द्रे द्विद्वारे (तु) कृते वदेत् । अथ द्वे प्राङ्मुखे द्वारे कुर्याद् हे दक्षिणानने ॥ १५ ॥ द्वारे प्रत्यङ्मुखे द्वे च द्वे च कुर्यादुदङ्मुखे । माहेन्द्रे प्राङ्मुखं द्वारं जयन्ते च स्मृतं वरम् ॥ १६ ॥ गृहक्षते च गन्धर्वे द्वारं याम्यमुखं पृथक् । द्वारं प्रत्यङ्मुखं पुष्पदन्तसुग्रीव के तथा ॥ १७ ॥ फल्लाटे वाथ मुख्ये वा कुर्याद् द्वारमुदङ्मुखम् | गृहक्षते च माहेन्द्रे द्वारं ब्राह्मणपूजितम् ॥ १८ ॥ गृहक्षतपदे पुष्पदन्ते द्वारं नृपस्य तु । फल्लाटे पुष्पदन्ते च द्वारं वैश्यस्य पूजितम् ॥ १९ ॥ माहेन्द्रेऽपि च फलाटे द्वारं शूद्रजनस्य तु । जयन्ते वाथ गन्धर्वे दौवारिकपदे पुनः ॥ २० ॥ १. 'प' क. पाठ:. २. 'द्वौ' ख. पाठः. ३०
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy