SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ शिल्परले [पूर्वभागः ब्रह्माणमाज्याक्षतपञ्चगव्यैः पुष्पैः सगन्धैश्चरुणा तिलैश्च । यथा विरि परिपूजयेद् गुरुस्तथैव वास्तुः परिपूजितव्यः || संपूज्य च प्राग् घृतपायसेन शर्वायस्कन्दमथो यजेत ॥ याम्येऽर्यम्णे समांसाज्यैस्ततः पित्तासृगामिषैः ॥ ६० ॥ ३८ जम्भकाय तु वारुण्यां पिलिपिञ्छाय चोत्तरे । सान्द्रलोहितपुष्पान्नैर्बलिम प्रदापयेत् ॥ ६१ ॥ मांसौदनघृतापूपैरैशान्यां चरकीबलिः । मार्गे पीतेन मांसेन विदायै बलिमर्पयेत् ॥ ६२ ॥ पूतनायां तु राक्षस्यां दधिरक्तौदनैर्बलिः । क्षीरपित्तास्थिरक्तान्नैर्वायव्यां पापराक्षसीम् ॥ ६३ ॥ अथ देवासुरगन्धर्वयक्षपितरः सनागराक्षसकाः । पूर्वाद्यष्टदिशासु क्रमशः सपिशाचका ग्रहाः पूज्याः ॥ ६४ ॥ एतेषां भूतकूरान्नैर्बलिर्मण्डलबाह्यतः । पूर्वादिदिवष्टकेषु शर्वरकन्दादिके बहिः || १५ || प्रत्येकमुक्तद्रव्याणामलाभे कुसुमाक्षतैः । सगन्धधूपदीपैश्च शुद्धान्नेन स्मृतो बलिः ॥ ६६ ॥ इत्येव वास्तुपुरुषं ब्रह्माणं च सदैवतम् । संपूज्य च बलिं दत्त्वा तत्तन्नाम्ना प्रसादयेत् ॥ ६७ ॥ इति शिल्परले वास्तुपूजाविधानं नाम सप्तमोऽध्यायः ।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy