SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २४२ शिल्परत्ने . पूर्वभागः तत्कर्णमानतुल्यं वा सन्ध्यायाम प्रकल्पयेत् । स्तम्भविष्कम्भयोर्मध्ये सन्धि३वोत्तरादिषु ॥ ५१ ॥ दक्षिणेऽपि च वामे वा स्तम्भचूडान्तकं तु यत् । सन्धिमध्यं नियोज्यं स्यात् तदेवं सम्पदा पदम् ।। ५२ ॥ अथवा पादविष्कम्भदलेन चतुरंशिते। . एकांशमथवा यंशं त्र्यंशं वा गमयेत् तथा ॥ ५३ ॥ सन्धानाधेयकस्याग्रमथवा भित्तिपादके। सन्धिस्थं कीलपार्श्वस्थं स्तम्भसूत्रं यथा तथा ॥ ५४ ॥ एवं - लुपादिधनमध्यस्थं नीप्रपदृयादिसन्धिषु । कीलपार्श्व भवत्वेवं सर्वमूह्यं यथोचितम् ॥ ५५ ॥ अन्योन्यसन्धिविढे तु शिखाकीलादि चिन्त्यते । द्रव्याणां वसुमध्यस्था शिखा सम्पद्विनाशिनी ॥ ५६ ॥ दक्षिणोत्तरतो नीता शिखा सम्पत्करी भवेत् । गृहीतद्रव्यविस्तारे वसुसप्तषडंशिते ॥ ५७ ॥ शिखायाः कीलकस्यापि विस्तारः स्यात् तु भागतः। तदर्धं तदनं कुर्यात् कीलस्य त्रिपदं तु वा ॥ ५८ ।। एकपङ्क्तिगतस्तम्भेष्वेकाकारास्तु सन्धयः । मिश्रसन्धिविनाशाय तस्मान्भिनं तु वर्जयेत् ॥ ५९ ॥ मल्ललीलं तथा ब्रह्मराजं वै वेणुपर्वकः । अमुकं देवसन्धिश्च दण्डकः षष्ठ उच्यते ॥ ६० ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy