SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २३० शिल्परले (पूर्वभागः उच्छ्यैकोनविंशांशे सार्धभागेन पादुकम् । चतुर्भिर्जगतीं कुर्यात् कुमुदं साधलोकतः ॥ ३२ ॥ एकांशं पट्टिकामानं त्रिभागं गलमेव च । सवलभ्युत्तरं साधं द्विभागं तु कपोतकम् ॥ ३३ ॥ अर्धाशं पट्टिकामानं पद्मोच्चं तु द्विभागतः । मध्यपीठमिदं ख्यातं सर्वदेवालयोचितम् ॥ ३४ ॥ उत्सेधे नवभागे तु पञ्चभागेन विस्तृतम् । तदुच्चे चतुर्विंशांशे सार्धाशं पादुकोन्नतम् ॥३५॥ चतुरंशं जगत्युच्च सार्धाग्न्यंशं तु कैरवम् । रामांशं प्रस्तरोत्सेधं तत्समं वेदिकोदयम् ॥ ३६ ॥ पादोत्सेधं त्रिभिर्भागैस्त्रिपादं तूत्तरोदयम् । तत्समं तु वलभ्युच्च द्विभागं तु कपोतकम्॥३७॥ अर्धाशं पट्टिकामानं पद्मोत्सेधं द्विभागतः । श्रीपीठाख्यमिदं पीठं मुख्यमाहुर्ऋषीश्वराः ।। ३८ ॥ उत्सेधार्ध तु विस्तारं पञ्चांशत्रितयं त वा । सप्तविंशतिधा तुङ्गे कृते द्वाभ्यां तु पादुकम् ॥ ३९ ॥ सार्धवेदांशकं वप्रं चतुरंशं तु कैरवम् । प्रस्तरं सार्धरामांशं तत्सम वेदिकोच्छ्रयम् ॥ ४० ॥ त्रिभागं गलमानं तु सबलभ्युत्तरोन्नतम् । सार्ध द्यधु कपोतोच्चं कारयेत् पट्टमर्धतः ॥ ४१॥ पङ्कजोच्चं हिभागेन रुद्रपीठमिदं स्मृतम् । उत्सेधे दशभागे तु सप्तभागं तु विस्तृम् ॥४२॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy